________________
१०२
प्रशमरतिप्रकरणम्
तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथविलोकनाद् गौरववशाच्च ॥१६३॥
कर्मभूमिरपि सुदुर्लभा । कर्मभूमिरपि यत्र तीर्थकृत उत्पद्यन्ते सद्धर्मदेशनाप्रवणाः परिनिर्वाणं प्राप्नुवन्ति भव्याः पञ्च ५भरतान्यैरावतानि विदेहाश्च पञ्चैव । मानुषत्वे कर्मभूमौ च सत्यां आर्यो देशो ६मगधाङ्गबङ्गकलिङ्गादि दुर्लभः । सत्स्वेतेषु त्रिषु कुलमन्वयविशुद्धिर्दुर्लभा, इक्ष्वाकुहरिवंशादि कुलम् । एतेष्वपि कुलपर्यन्तेषु लब्धेषु कल्पता नीरोगता दुर्लभा । एतेषु च कल्पतान्तेषु अवाप्तेषु दीर्घमायुर्दुर्लभम् । आयुष्कान्तेषु च समासादितेषु श्रद्धा धर्मजिज्ञासा दुर्लभा । सत्यामपि जिज्ञासायां कथकः सद्धर्मस्याख्याता दुर्लभः । सत्यपि कथके श्रवणमाकर्णनं प्रस्तावाभावाद् दुर्लभं, अनेकगृहकार्यव्यग्रत्वात् आलस्यमोहावज्ञामदप्रमादकृपणत्वभयशोकाज्ञानकुतूहलादिभिश्च श्रवणं प्रति न प्रवृत्तिर्भवति । सत्स्वप्येतेषु श्रवणपर्यन्तेषु प्राप्तेष्वपि सुदुर्लभा बोधिर्भवति । बोधिः सम्यग्दर्शनसम्यग्ज्ञानलाभः । तत्सम्यक्त्वं शङ्कादिशल्यरहितं सुदुर्लभं भवतीत्यर्थः ।।१६२॥
(१६३) टीका-तां दुर्लभामित्यादि । तां दुर्लभां सम्यग्दर्शनादिकां बोधिमवाप्य । भूयोऽपि दुर्लभा विरतिः सर्वविरतिर्देशविरतिश्च । किं पुनः कारणं सम्यक्त्वलाभे सति विरतिर्दुर्लभेत्याह-मोहोऽज्ञानं मोह–'इदं कृत्वा इदं चानुष्ठाय ततः प्रव्रजिष्यामीति, श्रावकधर्म वा प्रतिपत्स्ये न सर्वत्यागं कर्तुं शक्नोमि' इत्येतदज्ञानम् । नेदमवगच्छत्यकाण्डभङ्गरमिदं
भरतादि पञ्चदशधा आर्यदेशो-मगधादिः कुलं-उग्रादि कल्पता-नीरोगता आयु:-दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिः-प्राप्तिस्तत्र, तथा श्रद्धा च-धर्मजिज्ञासा कथकश्च-आचार्यादिः श्रवणं च-आकर्णनं तानि श्रद्धाकथकश्रवणानि तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधि:-दुष्प्रापः सम्यक्त्वलाभ इति ॥१६२।। इति भावनाधिकारः ॥९॥
(१६३) (वि०) अथ स रागादिविजयो दशविधधर्मासेवनद्वारेण साध्य इति बिभणिषुस्तमन्वयव्यतिरेकाभ्यामाह-तामिति । तां बोधि दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः-देशविरतिः सर्वविरतिश्च । अथ कुतो दुष्प्रापा विरतिरित्याह-मोहाद्-अज्ञानात्, तथा
सद्धर्मस्याख्यानं सम्यग्ज्ञानलाभो भवति ॥१६२॥
(१६३) (अव०)-अवाप्य अज्ञानात्, रागात्=१पत्न्याद्यासक्तेः कापथविलोकनात्कुपथदर्शनात् एकैकनयानुसारिजिनप्रणीतागमवचनैकदेशस्वयुक्तिनिरपेक्षान्ययुक्तिविचारणाद्वहवो निह्नवा जज्ञिरे गौरववशात् ॥१६३॥