________________
प्रशमरतिप्रकरणम्
१०१
धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ॥१६१॥ मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥१६२॥
इति । अध:शब्दादूर्ध्वाधश्चतुर्दशरज्जुप्रमाणः । सर्वत्र लोके जन्ममरणे समनुभूते, व्यापकमधिकरणं, नास्ति तिलतुषप्रमितोऽपि लोकाकाशदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्चेति । रूपीणि यानि द्रव्याणि परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि, तेषां य उपयोगः परिभोगो मनोवाक्कायाहारोच्छासनिश्वासादिरूपेण सर्वेषां कृतोऽनादौ संसारे पर्यटता चास्मि न तृप्त इत्यनुक्षणमनुचिन्तयेदिति ॥१६०।।
(१६१) टीका-स्वाख्यातधर्मभावनामधिकृत्याह-धर्मोऽयं स्वाख्यात इति । श्रुतधर्मश्चारित्रधर्मश्च सुष्ठ निर्दोषमाख्यातः स्वाख्यातः । किमर्थमाख्यात इत्याह-जगद्धितार्थं, जगच्छब्देन प्राणिनोऽभिधित्सिता । जगद्भः प्राणिभ्यो हितमेतदिति प्रतिविशिष्टं प्रयोजनमुद्दिश्याख्यातः । जिनैस्तीर्थकृद्भिः । अरयः क्रोधादिपरीषहकर्माख्याः । जितोऽभिभूतो निराकृतोऽरिगणो यैस्ते जितारिगणाः । इत्थंलक्षणे च धर्मे आगमरूपे क्षमादिलक्षणे च । ये रताः सक्तास्ते संसारसागरं लीलया अनायासेन सुखपरंपरया । उत्तीर्णाः परं पारमुपगताः । मोक्षं प्राप्ता इत्यर्थः ॥१६१॥
(१६२) टीका-१दुर्लभबोधित्वभावनामधिकृत्याह-मानुष्यकर्मेत्यादि । प्राक्तावन्ज्जन्मैव दुर्लभं चोल्लकादिदृष्टान्तदशकेन विभावनीयम् । सति च मानुषजन्मनिरे
जन्ममरणे समनुभूते, नास्त्येकोऽप्याकाशप्रदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्चरूपीणि' च तानि द्रव्याणि च-परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि तेषामुपयोगाःपरिभोगा: (णामा:)मनोवाक्कायादिभिः कृतास्तांश्च । न च तैस्तृप्त इति चिन्तयेदिति ॥१६०॥
(१६१) (वि०) स्वाख्यातधर्मभावनामाह-धर्मोऽयमिति । इति व्यक्तम् ॥१६१।। (१६२ ) (वि०) दुर्लभ'बोधित्वभावनामाह-मानुष्येति । मानुष्यं-नरत्वं कर्मभूमिः(१६१) (अव० )-सुष्ठ निर्दोषः ख्यातः । १क्षमादिलक्षणधर्मे । सुखपरंपरया ॥१६१॥
१(१६२) (अव०)-कल्पता-नीरोगता । आयुर्दीर्घायुष्कम् । श्रद्धा-धर्मजिज्ञासा । कथकश्चाचार्यः श्रवणं-चाकर्णनम् । एतेषु नवसु उत्तरोत्तरदुर्लभेषु सत्स्वपि । बोधितः ।