________________
१००
प्रशमरतिप्रकरणम्
यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१५९॥ लोकस्याधस्तिर्यग् विचिन्तयेक्मपि च बाहल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥१६०॥
(१५९) टीका-निर्जराभावनामधिकृत्याह-यद्वद्विशोषणादित्यादि । कथं पुनः संवृतात्मनः कर्मनिर्जरणमिति दर्शयति-निरुद्धष्वाश्रवद्वारेषु संवृतात्मनोऽपूर्वकर्मप्रवेशो नास्ति, पूर्वोपात्तस्य च कर्मणः प्रतिक्षणं क्षयस्तपस्यतो भवति । यथोपचितस्याजीर्णस्य आमविदग्धविष्टब्धरसशेषलक्षणस्य आहारनिरोधे सति 'विशोषणायाः प्रतिदिवसं क्षयो भवति प्रयत्नेन दोषाणामामादीनां, तद्वत्कर्मापि२ ज्ञानावरणादि चितं संसृतौ भ्रमता ३चतुर्थषष्ठामदशमद्वादशादिभिस्तपोविशेषैर्नीरसीकरोति । "कृतं च निरनुभावं निष्पीडितकुसुम्भवत् परिशटत्यात्मप्रदेशेभ्य इति ॥१५९।।।
(१६० ) टीका-लोकभावनामधिकृत्याह-लोकस्याधस्तिर्यगित्यादि । जीवाजीवाधारक्षेत्रं लोकः, तस्याधस्तिर्यगूर्ध्वञ्च चिन्तयेत् । बाहल्यं विस्तरम् । अधः सप्तरज्जुप्रमाणो विस्तीर्णतया लोकः । तिर्यग् रज्जुप्रमाणः । ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः । पर्यन्ते रज्जुप्रमाण
(१५९) (वि०) निर्जराभावनामाह-यद्वदिति । यद्वद् यथा शोषणात्-लङ्घनादिकाद् यत्नेन-महादरेण उपचितोऽपि-पुष्टोऽपि ज्वरादिदोषो जीर्यते-हानि याति, दृष्टान्तः । दार्टान्तिकमाहतद्वत्-तथा कर्म-ज्ञानावरणादिकमुपचितं-बद्धादि निर्जरयति-क्षपयति संवृतो-निरुद्धास्रवद्वारो जीवः । केन ?-तपसा-अनशनादिनेति ॥१५९।।
__ (१६०) (वि०) लोकभावनामाह-लोकस्येति । लोकस्य-जीवाजीवाधारक्षेत्रस्याधस्तिर्यगूर्ध्वमपि च बाहल्यं-विस्तरं विचिन्तयेत् । तत्राधः सप्तरज्जुप्रमाणो लोकः, तिर्यग् रज्जुप्रमाणः, ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः, पर्यन्ते रज्जुप्रमाणः, चशब्दादूर्वाधश्चतुर्दशरज्जुप्रमाणः । सर्वत्र
(१५९) (अव०) विशोषणाल्लङ्घनात् । उपचितोऽपि-पुष्टोऽपि । दोषोऽजीर्णात्मकः । तत्कर्मोपचितं बन्धादिभिः निरुद्धाश्रवद्वारो जीवः संवृतः ॥१५९॥
(१६) (अव०)-सर्वत्र यत्र न जातं न मृतं मयेति । परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि द्रव्याणि । तेषां मनोवाक्कायादिभिरुपयोगाः । न च तैस्तृप्त इति चिन्तयेत् ॥१६०॥