________________
प्रशमरतिप्रकरणम्
या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ॥ १५८॥
९९
सम्यग्दृष्टिर्विरतोऽपि यः प्रमादवान् सोऽपि कर्म श्रवत्यादत्ते । प्रमादश्च निद्राविषयकषायविकटविकथाख्यः पञ्चधा, अनेन प्रमादेन युक्तः कर्म बध्नाति । कषायप्रमादो गरीयानिति भेदेनोपादानम् । दण्डस्त्रिधा मनोवाक्कायाख्यः । मनसार्तरौद्राध्यवसायः कर्माश्रवति, वाचा हिंसकपरुषादितया कर्म बध्नाति । कायेनापि धावनवल्गनप्लवनादिरूपेण कर्मादीयते । दण्डयन्तीति दण्डाः । मन एव दण्डयत्यात्मानं, एवमितरावपि । तस्याश्रवहेतोः, कर्मणि क्रियायां, यतेत यत्नं कुर्वीत । तेषामाश्रवाणां निग्रहो निरासस्तस्माद्यत्नादिति । विवृतान्या - श्रवद्वाराणि यथा न सम्भवन्ति तथा यतेत ॥१५७॥
॥१५७॥
( १५८ ) टीका-संवरभावनामधिकृत्याह -या पुण्येत्यादि । पुण्यकर्म साादि । पापं ज्ञानावरणादि । तयोः पुण्यपापयोरग्रहणेऽनुपादाने । वाक्कायमानसी वृत्तिर्या व्यापार इत्यर्थः । अग्रहणं च संवृता श्रवद्वारस्य भवति, न पुनः पुण्यमादत्ते न पापम् । सुसमाहितः सुष्ठु समाहितः संरोपितः । आयत्यां ४ तदात्वे च संवर आश्रवनिरोधलक्षणः । वरदास्तीर्थकृतः ईप्सितार्थप्रदानाद्वरदाः, 'मोक्षार्थश्चेप्सितः । स चिन्तनीयो भावनीय इत्यर्थः ॥१५८॥
यत्तदोर्नित्याभिसम्बन्धाद् यथाऽऽ श्रवविशेषा न भवन्तीत्यर्थः । कस्मात् ? - तस्माद्भावनाबलादिति
(१५८) (वि०) संवरभावनामाह-येति । यत्तदोर्नित्याभिसम्बन्धात् संवरःआस्रवनिरोधलक्षणश्चिन्त्यः - चिन्तनीयो भवति । या १ किमित्याह - या वृत्तिः - व्यापारः, पाठान्तरे गुप्तिः-गोपनं । कीदृशी ? - वाक्कायमानसी, एतद्भावात्, का ? - अग्रहणे - अनुपादाने । कयोः ? - पुण्यं कर्म सातादिद्विचत्वारिंशद्भेदं, पापं कर्मज्ञानावरणीयादि द्व्यशीतिभेदम्, उभयमपि वक्ष्यमाणं, ततो द्वन्द्वः, तयोः, अग्रहणं च संवृतास्रवद्वारस्य भवति, ततो न पुण्यमादत्ते, न पापमिति । कीदृशः संवरः ?- सुसमाहितः-सुष्ठु आत्मन्यारोपितः । तथा हित आयत्यां । तथा वरदा:- - तीर्थकरास्तैर्देशित:- कथित इति समासः ||१५८।।
भवन्तीति । आश्रवविधिरुक्तस्तस्मिन्नाश्रवकर्मणि विषये तेषां भेदानां निग्रहे यते ॥ १५७॥ (१५८ ) (अव०) - अनुपादाने । वृत्तिर्व्यापारः । पाठान्तरे गुप्तिर्गोपनम् । आत्मन्यारोपितं हितः । वरदैस्तीर्थकरादिभिः ॥१५८ ॥