________________
प्रशमरतिप्रकरणम्
११९
जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुःपञ्चषड्भेदाः ॥१९०॥
मोक्षः । इत्थमेते सम्यक् चिन्त्याः सम्यगालोच्या अन्यस्मै प्रतिपाद्या नव पदार्थाः । ननु च शास्त्रे सप्ताभिहिताः कथमत्र नवेति ? उच्यते-शास्त्रे पुण्यपापयोर्बन्धग्रहणेनैव ग्रहणात् सप्तसङ्ख्या : । इह तु भेदेनोपादानं पुण्यपापप्रकृतिविभागप्रतिपादनार्थमिति ॥१८९।।
(१९०) टीका-जीवभेदप्रतिपादनायाह-जीवा मुक्ता इत्यादि । द्विप्रकारा जीवाः। मुक्ताः सकलकर्मक्षयभाज एकरूपाः । संसारिणस्त्वनेकविधाश्चतुर्गतिवृत्तयस्ते चानेकभेदाः नारकास्तिर्यञ्चो मनुष्या देवा:२ । पुना रत्नप्रभापृथिवीनारका इत्यादिभेदाः । तिर्यञ्चोऽप्येकद्वित्रिचतुःपञ्चेन्द्रियभेदाः । पुनरेकेन्द्रियाः पृथिव्यादिभेदाः । द्वीन्द्रियाः शङ्खशुक्तिकादयः । त्रीन्द्रियाः पिपीलिकादयः । चतुरिन्द्रिया मक्षिकाभ्रमरपतङ्गादयः । पञ्चेन्द्रिया गोमहिष्यजाविकादयः गर्भव्युत्क्रान्तादयः सम्मूर्छजाश्च । मनुष्या आर्यम्लेच्छादिभेदाः गर्भजाः सम्मूर्छजाश्चेति । देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः भवनपतयो दशधासुरादयः । व्यन्तराः किन्नरादयोऽष्टभेदाः । ज्योतिष्काः पञ्चप्रकाराः सूर्यादयः। वैमानिकाः सौधर्मवास्यादय इति ॥१९०॥
एवमाश्रवोऽपि ५ संवरोऽपि ६ अत्रापि द्वन्द्वः । सनिर्जरणा-निर्जरायुक्ता इत्यर्थः ७, बन्धः-कर्मोपादानं ८ मोक्ष:-कर्माभावः ९, एते सम्यक् चिन्त्या नव पदार्था इति व्यक्तमिति । नन्वन्यत्रैते सप्त तत्त्वान्यभिहिताः कथमत्र नव पदार्था उक्ता इति ?, उच्यते-अन्यत्र पुण्यपापयोर्बन्धग्रहेणेनैव ग्रहणं कृतं, इह तु तौ पृथग्विवक्षितौ इति न दोष इति ॥१८९।। (परस्परवैलक्षण्यभाजः सप्तेति तु तर्कः)
(१९०) (वि० ) एतान् विवरीषुस्तावज्जीवानाह-जीवा इति । जीवा विज्ञेया इति योगः, कीदृशा ?-मुक्ताः-सिद्धाः, तथा संसारिणो-भवस्थाः । चः समुच्चये । तत्र संसारिणस्त्वनेकविधाः लक्षणतो विज्ञेया:-चिह्नतो बोद्धव्याः, द्वित्र्यादयो भेदा येषां ते तथा, इति ॥१९०।।
(१९०) (अव०) एतानि विवरीषुस्तावज्जीवानाह-असङ्ख्येयप्रदेशात्मकाः सकलोपयोगभाजः मुक्ताः सिद्धाः । संसारिणो भवस्थाः लक्षणतश्चिह्नत एकेन्द्रियादयो ज्ञातव्या इति । लक्षणतोऽसाधारणस्वरूपतः ॥१९०॥