________________
१२०
प्रशमरतिप्रकरणम्
द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यङ्मानुषदेवाश्च चतुर्विधाः प्रोक्ताः ॥१९१॥ पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियाश्च निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥१९२॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः ॥१९३॥
(१९१) टीका-'प्रकरणकारस्त्वनेकविधत्वमन्यथा दर्शयति-द्विविधा इत्यादि । चरा जङ्गमास्तेजोवायुद्वीन्द्रियादयः । अचराः स्थावराः पृथिव्यादयः । त्रिविधाः स्त्रियः पुमांसो नपुंसकाः । नारकादिभेदेन चतुर्विधाः । शासनेऽभिहिताः ॥१९१॥
(१९२) टीका-पञ्चविधेत्यादि । पञ्चप्रकारा एकद्वित्रिचतुःपञ्चेन्द्रियाः कथिताः । भूमिजलवह्निवायुवनस्पतिद्वीन्द्रियादयश्चेति षड्भेदाः ॥१९२।।
(१९३) टीका-एवमनेकेत्यादि । एवमुक्तेन न्यायेनानेकविधानामनेकभेदानामेकैको विधिमूलभेदोऽनन्तपर्यायोऽनन्तभेद: कथितः । केन प्रकारेण स्थितितोऽवगाहतो
(१९१)(वि०) प्रस्तावात् संसारिजीवभेदानार्याद्वयेनाह-द्विविधा इति । द्विविधाः । केन द्वैविध्येन ?-चरा:-त्रसाः अचरा:-स्थावराः पृथिव्यादयः एवमाख्या-नाम येषां ते तथा । तथा त्रिविधाः स्त्रीपुंनपुंसका:-नारीनरषण्ढा ज्ञेयाः । तथा नारकतिर्यङ्मानुषदेवाश्चतुर्विधाः प्रोक्ता इति व्यक्तमिति ॥१९१।।
(१९२) (वि० ) पञ्चेति । पञ्चविधास्त्वेकेन्द्रियादयो निर्दिष्टाः, तथा क्षित्यादयः षड् भेदाः प्रसिद्धस्वरूपा इति ॥१९२।।
(१९३) (वि०) सर्वजीवभेदानां व्याप्तिमाह-एवमिति । अत्र द्वितीयार्यार्धे चतुर्थगणः पञ्चमात्रः पञ्चमगणस्तु त्रिमात्रो, यथा ज्ञानदर्शनादिपर्यायैः, एवमेकोत्तरवृद्ध्याऽनेकविधानां-बहुभेदानां
( १९३) (अव०)-एवमनेकप्रकाराणामेकैको विधिरेकैको भेदोऽनन्तकालवर्तित्वादनन्तपर्यायः, अनन्ताः पर्याया धर्मा यस्य, अन्तर्मुहूर्तादारभ्यैकैकसमयवृद्ध्या त्रयस्त्रिंशत्सागरोपमाणि यावत् स्थितयः । अङ्गुलासङ्ख्येयभागादारभ्य यावत्समस्तलोकावगाहः, ज्ञानं-वस्तुविशेषावबोधो दर्शनं-वस्तुसामान्यावबोधः, पर्यायास्तारतम्यकृतविशेषाः ॥१९३॥