________________
प्रशमरतिप्रकरणम्
१२१
सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥१९४॥
ज्ञानतो दर्शनतश्च । स्थितितस्तावदनन्तपर्यायः । अनादौ संसारेऽनन्ताः स्थितिपर्यायाः । अवगाहतोऽप्यसङ्ख्येयप्रदेशावगाहे हीनाधिकसमप्रदेशभेदेनावगाहोऽपि बहुप्रकारः । तथा ज्ञानतोऽप्यनन्तपर्यायता दर्शनतश्च । यथोक्तम्-'अणंता णाणपज्जवा, अणंता दंसणपज्जवा' ((अनन्ता ज्ञानपर्याया, अनन्ता दर्शनपर्यायाः) । एकैको नारकादिभेदो यथासम्भवमनन्तपर्यायो भवति ।।१९३॥
(१९४) टीका-जीवलक्षणाभिधित्सयाह-सामान्यं खल्वित्यादि । सामान्य लक्षणं सर्वजीवानामुपयोगश्चेतना ज्ञानदर्शनव्यापारः । खलुशब्दोऽवधारणे । उपयोग एव १सामान्यलक्षणम् । सर्वजीवानामिति । तमुपयोगं विस्पष्टयति-साकारोपयोगः । आकारो विकल्पः । सहाऽऽकारेण २वर्तते इति साकारः, सविकल्पो ज्ञानव्यापारः । अनाकारो दर्शनोपयोग: सामान्यग्रहणं निर्विकल्पमित्यर्थः । ज्ञानोपयोगोऽष्टभेदः मतिश्रुतावधिमनःपर्यायकेवलज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाख्यः । दर्शनोपयोगश्चतुर्धा चक्षुरचक्षुरवधिकेवलदर्शनाख्यः ॥१९४।।
एकैको विधिः-एकैको भेदोऽनन्तपर्यायः-अनेकभेदः प्रोक्त:-तीर्थकरैः प्रतिपादितः । कैः कृत्वेत्याह-स्थिति:-कायस्थानरूपा "अस्संखोसप्पिणी"त्यादिका (असङ्ख्योत्सर्पिणी) आयुष्करूपा च "बावीसई सहस्सा" (द्वाविंशतिः सहस्राणि) इत्यादिरूपा । अवगाहस्तु अङ्गलासङ्ख्येयभागमात्रादारभ्य यावत् समस्तलोकावगाहः, ज्ञानं वस्तुविशेषावबोधो, दर्शनं वस्तुसामान्यावबोधः, आदिशब्दाद्यथासम्भवं चारित्रसुखवीर्यादिग्रहस्तेषां पर्याया-अवस्थाविशेषाः, धर्मा इत्यर्थः ते तथा, तैरिति ॥१९३।।
(१९४) (वि०) अनन्तरं जीवा उक्ताः, अतः सामान्यं तल्लक्षणमाह-सामान्यमिति । सामान्यं खलु-साधारणमेव लक्षणं-चिह्नं सर्वजीवानां भवतीति योगः । यत्किमित्याह-उपयोगःचेतना । उपयोगमेव स्पष्टयति-साकारो-विकल्परूपो ज्ञानोपयोगः तथा अनाकार:-तद्विपरीतो दर्शनोपयोगः । चः समुच्चये । अनयोर्भेदानाह-सोऽष्टभेदश्चतुर्धा चेति यथासङ्ख्येनेति ॥१९४।।
(१९४) (अव०)-उपयोगश्चेतनाज्ञानदर्शनव्यापारः, साकारो विकल्परूपो ज्ञानोपयोगः, तद्विपरीतो दर्शनोपयोगः ८(अष्ट)भेदः ४(चतुः )भेद:१ ॥१९४॥