________________
१२२
प्रशमरतिप्रकरणम्
ज्ञानाऽज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरवक्षुरवधिकेवलदृग्विषयस्त्वनाकारः ॥ १९५॥ भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । औपशमिकः क्षयोत्थः क्षयोपशमजश्च पञ्चैते ॥१९६॥
( १९५) टीका-तानष्टौ भेदांश्चतुरश्च कथयति - ज्ञानाज्ञान इत्यादि । यथासङ्ख्यं पञ्चविकल्पं मत्यादिज्ञानं, त्रिविकल्पमज्ञानं मत्यज्ञानादि । एषोऽष्टप्रकार उपयोगः साकारः । तुशब्दोऽवधारकः२ । अष्टविध एवेति । चक्षुर्दर्शनादिसामान्योपयोगश्चतुर्वैवेति ॥ १९५॥
( १९६ ) टीका–जीवस्यैवमुपयोगलक्षणस्य सतः 'परिणतिविशेषान् भावान् दर्शयन्नाहभावा भवन्तीत्यादि। `जीवस्य भावाः परिणतिविशेषाः कर्मोदयोपशमक्षयोपशमक्षयनिर्वृत्ताः । औदयिकः पारिणामिक: औपशमिकः क्षायिकः क्षायोपशमिकश्च पञ्चेति ॥१९६॥
( १९५) (वि०) एतदेव व्यक्तीकुर्वन्नाह - ज्ञानाज्ञान इति । ज्ञानं चाज्ञानं च ते तथा, यथासङ्ख्येन पञ्चत्रिविकल्पे, तत्र ज्ञानं मतिज्ञानादि पञ्चधा, अज्ञानं तु मत्यज्ञानादि त्रिधा, भवतीति शेषः । तत्राद्यपञ्चकं सम्यग्दृष्टेः इतरन्मिथ्यादृष्टेः, एवं राशिद्वयमीलने सोऽष्टधा - अष्टप्रकारः । कीदृशः ?-साकारो-विशेषग्राही । चक्षुर्दर्शनादिरनाकार:- सामान्यग्राही चतुर्धेति ॥ १९५ ॥
(१९६) (वि०) एते द्वादशोपयोगा भावाः, अतः प्रस्तावादन्यानपि भावानादर्शयन्नाहभावा इति । भावा:- परिणतिविशेषाः, कस्य भवन्ति ? - जीवस्य जायन्ते । कीदृशा ? - औदयिकः पारिणामिकः औपशमिकः क्षायिकः क्षायोपशमिकश्च पञ्चैते, कर्मणामुदयोपशमक्षयक्षयोपशमनिर्वृत्ताश्चत्वारः, पारिणामिकस्तु जीवाजीवानां परिणतिरिति ॥१९६॥
( १९५ ) ( अव० ) – ज्ञानं मत्यादि १ ५ अज्ञानं तु मत्यज्ञानादि ३, मतिश्रुतावधयो मिथ्यात्वोदयोपरक्तस्वभावा अज्ञानतां यान्ति ॥ १९५ ॥
( १९६ ) ( अव० ) - औदयिकः स च जीवोपात्तकर्मणां विपाकप्रदेशद्वयरूप उदयो, देवनारकादिपर्यायकारी । पारिणामिको जीवभव्याभव्यत्वादिरूपस्त्रिकालतदविच्युतिरूपः । उपशमः कर्मणां विपाकप्रदेशद्वयरूपोदयाभावस्तेन निर्वृत्त औपशमिकः । सम्यक्त्वचारित्ररूपः सम्यक्त्वज्ञान' चारित्रादिरूपः क्षयोत्थः ॥ १९६॥