________________
प्रशमरतिप्रकरणम्
१२३
१ते चैकविंशति-त्रि-द्वि-नवाष्टादशविधाश्चरे विज्ञेयाः ।
षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः ॥१९७॥
(१९७) टीका-एषामेवौपशमिकादिभावानां क्रमेण भेदानाचष्टे ते चैकविंशती त्यादि । कर्मोदये भवः कर्मोदयनिर्वृत्तो वा औदयिकः स एकविंशतिभेदः । गतिर्नारकादिका चतुविधा, कषायाः क्रोधादयश्चतुर्धा, लिङ्गं स्त्रीपुंनपुंसकाख्यं त्रिधा, मिथ्यादर्शनमश्रद्धानलक्षणमेकप्रकारं, अज्ञानमेकविधं, असंयतत्वमेकप्रकारं, असिद्धत्वमेकविधं, लेश्याः षट्प्रकाराः । एते गत्यादयः सर्वे कर्मोदयात्प्रादुःषन्ति । अनादिपारिणामिको भावस्त्रिविधः । जीवत्वं भव्यत्वमभव्यत्वं चेति नैते कर्मोदयाद्यपेक्षन्ते । कर्मोपशमनिर्वृत्त औपशमिकः सम्यक्त्वं चारित्रं च द्विविधः । क्षयोत्थः कर्मक्षयाज्जातः क्षायिकः, स नवभेदः, केवलज्ञानं, केवलदर्शनं, दानलब्धिः, लाभलब्धिः, भोगलब्धिः, उपभोगलब्धिः, वीर्यलब्धिः सम्यक्त्वं चारित्रं चेति । क्षयोपशमजः क्षायोपशमिकः, सोऽष्टादशभेदः, मत्यादिज्ञानं चतुर्विधम्, अज्ञानं मत्यज्ञानादि त्रिविधं, दर्शनं चक्षुर्दर्शनादि त्रिविधं, दानादिलब्धयः पञ्च, सम्यक्त्वं, चारित्रं, संयमासंयमश्चेति । षष्ठश्च सान्निपातिक इति । सन्निपातः संयोगः, सन्निपातः प्रयोजनमस्येति सान्निपातिकः संयोगजो भावः । तत्र पञ्चानां भावनामौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां द्विकादिसंयोगेन षड्विशतिविकल्पा भवन्ति । तत्र विरोधित्वादेकादश त्याज्याः, शेषाः पञ्चदशाविरोधिनः सम्भवन्ति । तेषामविरोधि पञ्चदशानां ग्रहणं कृतं प्रकरणकारेणेति । ते चामी विज्ञेयाः ।
(१९७) (वि०) एतेषां क्रमेण भेदानाचष्टे-ते पुनरेकविंशतिश्च त्रयश्च द्वे च नव चाष्टादश च ते तथा ते विधा-भेदा येषामिति समासो, विज्ञेया इति घटना । तत्र कर्मोदये भवः कर्मोदयनिर्वृत्तो वा औदयिकः, स एकविंशतिभेदः, तत्र गतयो नारकाद्याश्चतुर्धा ४ कषायाश्चतुर्धा ४ लिङ्गत्रयं ३ मिथ्यात्वमेकप्रकारं १ अज्ञानं च १ असंयतत्वं च १ असिद्धत्वं च १ लेश्याः षट्प्रकाराः ६, एते गत्यादयः सर्वे कर्मोदयात्प्रादुर्भवन्ति, अत्र गतिग्रहणेन शेषभवोपग्राहिकर्म गृहीतं, कषायादिना घातिकर्म गृहीतम्, इदं च गन्धहस्तिना भणितमास्ते । तर्हि अज्ञानादीनि कथमौदयिके भावे?, सत्यं, तत्कार्यत्वात्तेषामौदयिकता भावनीया । तथा अनादिपारिणामिको भावस्त्रिधा-जीवत्वं १ भव्यत्वं २ अभव्यत्वं ३ चेति, नैते कर्मोदयाद्यपेक्षन्ते । तथा कर्मोपशमनिमित्त औपशमिकः, सम्यक्त्वं १ चारित्रं २ चेति द्विविधः । तथा क्षयोत्थ:-कर्मक्षयाज्जातः क्षायिकः, स नवभेद:-केवलज्ञानं १ केवलदर्शनं १ दानलब्धिप्रभृतयः ५ सम्यक्त्वं १ चारित्रं १ चेति । तथा क्षयोपशमजः-क्षायोपशमिकः, सोऽष्टादशभेदो, मतिज्ञानादिज्ञानं चतुर्विधं ४ मत्यादि अज्ञानत्रयं ३ दर्शनं चक्षुरादि त्रिविधं ३
(१९७) (अव०)-१गति-कषाय-लिङ्ग-मिथ्यात्वज्ञातासंयतासिद्धत्व-लेश्या:जीवत्वं