________________
१२४
“उदइय-खओवसमिय- परिणामिक्किक्कगइचउक्के वि । खयजोगेण वि चउरो तयभावे उवसमेणं पि ॥ १ ॥
समसेढीको केवलिणो वि य तहेव सिद्धस्स । अविरुद्धसंनिवाइय भेया एमेव पन्नरस ॥ २ ॥ (औदयिक क्षयोपशमिक-पारिणामिकैकैको गतिचतुष्केऽपि । क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ उपशमश्रेण्यैकः केवलिनोऽपि च तथैव सिद्धस्य ।
अविरुद्धसान्निपातिको भेदा एवमेते पञ्चदश ॥ )
अन्यः ६षष्ठो विकल्पः सान्निपातिक इत्यर्थः ॥१९७॥
प्रशमरतिप्रकरणम्
दानादिलब्धयः ५ सम्यक्त्वं १ चारित्रं १ संयमासंयमश्चेति १, तथा षष्ठश्च सान्निपातिकश्चेति, सन्निपातः-संयोगः स प्रयोजनमस्येति सान्निपातिकः - संयोगजो भावः, तत्र पञ्चभावानामौदयिकादीनां द्विकादिसंयोगेन षड्विंशतिर्भङ्गा भवन्ति, तत्र द्विकयोगः षष्ठः परिणामिकक्षायिकरूपः सिद्धानामिति १, द्वितीयत्रिकयोगः औदयिकपारिणामिकक्षायिकलक्षणः केवलिनः २ तृतीयत्रिकयोग औदयिकपारिणामिकक्षायोपशमिकलक्षणः, स चतुर्गतिकजीवविषयः ३ चतुष्कसंयोगो द्वितीय औदयिकपारिणामिक-औपशमिकक्षायोपशमिकरूपश्चतुर्गतिकानां ४ तृतीयश्चतुष्कयोग औदयिकः पारिणामिकः क्षायिकः क्षायोपशमिकः, एषोऽपि चतुर्गतिकानामेव ५ मनुजानां तु पञ्चकयोगःऔदयिकः पारिणामिकः औपशमिकः क्षयोत्थः क्षयोपशमिकश्च ६, इति षडेव भङ्गा यथोक्तसङ्ख्या ग्राह्या, घटमानत्वात्, न तु विंशतिरिति । तथा चोक्तम्
दुगजोगो सिद्धाणं केवलिसंसारियाण तिगजोगो । चउजोगजुयं चउसुवि गईसु मणुआण पणजोगो ॥ इति । (द्विकयोग: सिद्धानां केवलिसंसारिणोस्त्रिकयोगः । चतुर्योगयुगं चतुःस्वपि गतिषु मनुष्याणां पञ्चकयोगः ॥ )
सिद्धसत्कद्विकयोग-केवलिसत्कत्रिकयोग-कृतखण्डश्रेणि-उपशम श्रेणिस्थितमनुष्य
सत्कपञ्चकयोग-गतिचतुष्टयद्वारागतद्वादशयोगमीलनेन पञ्चदश भवन्ति, अत्र चोक्तम्
raat उवसमसेढि १ सिद्ध २ केवलिसु ३ एवमविरुद्धा । पन्नरस सन्निवाइय भेया वीसं असंभविणो ॥ १ ॥
उदइयखओवसमियपरिणामिएहिं चउरो गइयचउक्के । खइयजुएहिं चउरो तयभावे उवसमजुएहिं ॥२॥
२भव्यत्वं अभव्यत्वं च, सम्यक्त्वं चारित्रं मत्यादिज्ञानं त्रिविधं दर्शनं त्रिविधं, दानादिलब्धयः पञ्च, सम्यक्त्वं, संयमासंयमः । एषां द्विकादिसंयोगेन षड्विंशतिर्विकल्पाः ३भवन्ति । तत्र विरोधित्वादेकादश त्याज्याः, शेषा १५ (पञ्चदश ) ग्राह्याः ॥१९७॥