Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 586
________________ ऊनत्रिंशत्तमपरिवर्तः । पर्ययरूपेणानास्रवदानाद्यशौत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्यावबोधादविपाकाना स्रव सर्वधर्मेकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधः प्रथमः । तथा चोक्तम् । अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ १ ॥ इति किमिव पुनरेकानास्ववज्ञानालम्बने सर्वानास्त्रवसंग्रह इति चेत् । उच्यते । यथैकापि पदिका पुरुषप्रेरिता सहदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्व परिकर्म सामर्थ्याञ्चलयति, तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्यादेकस्मिन्नेव क्षणे ज्ञानमेकमनास्रवमालम्ब्यमानं कार्यकारणसम्बन्धबलात्सर्वं सजातीयमभिमुखीकारयतौति । I ५१८ तथा चोक्तम् । घट्टं यथैकापि पदिका पुरुषेरिता । सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥ २ ॥ इति तदनु यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमेन सकलव्यवदानपक्षश्विपाकधर्मताऽवस्था सर्वकलङ्कापगमेन शरदिन्द ज्योत्स्नावत् शुक्तस्वभावा जाता तदैकस्मिन्नेव क्षणे विपाकावस्था प्राप्तानामनास्त्रवसर्वधर्माणां बोधाज्ज्ञानं प्रज्ञापारमितेत्येवं विपाकधर्मताऽवस्थाऽनास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः । तथा चोक्तम् । विपाकधर्मतावस्था सर्वशुक्लमयौ यदा । प्रज्ञापारमिता ज्ञाता ज्ञानमेकक्षणे तदा ॥ ३ ॥ इति तदनुपूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्दयमनुभूयाधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषूपादान

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677