________________
ऊनत्रिंशत्तमपरिवर्तः ।
पर्ययरूपेणानास्रवदानाद्यशौत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्यावबोधादविपाकाना स्रव सर्वधर्मेकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधः प्रथमः । तथा चोक्तम् । अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ १ ॥ इति किमिव पुनरेकानास्ववज्ञानालम्बने सर्वानास्त्रवसंग्रह इति चेत् । उच्यते । यथैकापि पदिका पुरुषप्रेरिता सहदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्व परिकर्म सामर्थ्याञ्चलयति, तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्यादेकस्मिन्नेव क्षणे ज्ञानमेकमनास्रवमालम्ब्यमानं कार्यकारणसम्बन्धबलात्सर्वं सजातीयमभिमुखीकारयतौति ।
I
५१८
तथा चोक्तम् ।
घट्टं यथैकापि पदिका पुरुषेरिता । सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥ २ ॥ इति तदनु यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमेन सकलव्यवदानपक्षश्विपाकधर्मताऽवस्था सर्वकलङ्कापगमेन शरदिन्द ज्योत्स्नावत् शुक्तस्वभावा जाता तदैकस्मिन्नेव क्षणे विपाकावस्था प्राप्तानामनास्त्रवसर्वधर्माणां बोधाज्ज्ञानं प्रज्ञापारमितेत्येवं विपाकधर्मताऽवस्थाऽनास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः । तथा चोक्तम् ।
विपाकधर्मतावस्था सर्वशुक्लमयौ यदा ।
प्रज्ञापारमिता ज्ञाता ज्ञानमेकक्षणे तदा ॥ ३ ॥ इति तदनुपूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्दयमनुभूयाधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषूपादान