________________
अभिसमयालङ्कारालोकः ।
तदनु
५१८
स्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेणालक्षणाः सर्वधर्मा इति । संक्लेशव्यवदानरूपाणां धर्माणामेकेनैव क्षणेनालक्षणत्वं जानातौत्येवमलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधस्तृतौयः । तथा चोक्तम् ।
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया । अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥४॥ इति निरन्तर दौर्घकालदयप्रतिभासप्रहाणाभ्यास
सात्मौभावादुन्मूलितद्दयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहक योगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते तदा सर्वेऽप्येवं धर्माणो धर्मा इति धर्माणामयं तत्त्वमेकेनैवक्षणेन पश्यतीत्येवमद्दयलक्षणसर्वधमैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधश्चतुर्थः । तथा चोक्तम् ।
स्वप्नं तद्दर्शिनचैव दययोगेन नेक्षते ।
धर्माणामयं तत्त्वं क्षणेनैकेन पश्यति ॥ ५ ॥ इति एकक्षणाभिसम्बोधं प्रति हेतुफलभेदेन यथाक्रममविपाकविपाकधर्मतावस्थाऽनास्रवसर्वधर्मैकक्षणाभिसम्बोध
यं निर्दिश्यैवं विशिष्टाधिगमावस्थायां धर्मतैकरसत्वेनासंभेदात् स्वप्नस्वभावौभूत सर्वधर्मावगमार्थं तृतौयमलक्षणसर्वधर्मैकक्षणाभिसमयं प्रतिपाद्य स्वप्नावस्थायामपि ग्राह्यग्राहकयोस्तत्त्वेनानुपलम्भाददयप्रतिपत्त्यर्थमद्दयलक्षणसर्वahaणाधिगमो निर्दिष्ट इत्येवं लक्षणेनैकक्षणाभिसमयचतुः प्रकारोऽपि योगिभिरधिगन्तव्य इत्येके । अन्ये तु यदि नाम चतुः प्रकारः सन्निहितविनेयजनानुरोधेन व्यावृत्ति -