________________
५२.
ऊनत्रिंशत्तमपरिवर्तः ।
भेदात्कथञ्चिदपात्तस्तथाप्यन्यतम एवैकः प्रकारो योगिना केनचित्साक्षात्कर्तव्य इति मन्यन्त इति । एकक्षणाभि समयाधिकारः सप्तमः ।
कस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्तताऽनुगन्तव्येत्युच्यते इति। तत्कस्य हेतोरित्याशङ्याह। रूपं हि सुभूते समुद्रसममित्यादि। येन साधयेण रूपादीनां समुद्रादिभिस्तुल्यत्वं तथा समुद्रापर्यन्तयेत्यादि पदव्याख्याने प्रागेव व्याख्यातमिति न पुनरुच्यते। उपसंहरनाह। एवं हि सुभूत इत्यादि। विभावितैकक्षणाभिसम्बोधस्य हितौये क्षणे धर्मकायाभिसम्बोध इति। तदर्थमाह। यदायं सुभूते बोधिमत्त्व इत्यादि (p. 473, 22) । यदा सर्वमायाविवर्जितैर्मनसिकारैर्यथोक्तक्रमेण प्रज्ञापारमितामेनां सर्वधर्ममायोपमतां सर्वाकारज्ञतयाऽनुगमिष्यति मार्गज्ञतया व्यवचारयिष्यति सर्वज्ञतयाऽवतरिष्यति सर्वाकाराभिसम्बोधेनावभास्यते मूर्धाभिसमयेन चिन्तयिष्यति अनुपूर्वाभिसमयेन तुलयिष्यति एकक्षणाभिसमयेनोपपरीक्षिष्यते धर्मकायाभिसम्बोधेन च भावयि ष्यति, तदा नास्य बोधिसत्त्वस्य दुर्लभा सर्वगुणानां धर्मकायस्वभावानां बुद्धक्षेत्रस्य साम्भोगिककायलक्षणस्यानुतराणाश्च बुद्धधर्माणां सकर्मकनिर्माणकायस्वरूपाणां परिपूरिरित्यवयवार्थः। समुदायार्थः सूच्यते। स च धर्मकायाभिसम्बोधः स्वाभाविककायादिभेदेन चतुर्विध इति। तत्र प्रथमो ये स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वादनाखवामलानामागन्तुकत्वेन