________________
अभिसमयालङ्कारालोकः ।
__५२१ सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिःस्वभावोऽनुत्यादरूपोऽयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते न क्रियते इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याऽधिगतः स्वाभाविकः कायः परिशिष्टकायचयं तथ्यमंत्र्त्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभवितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय ;
विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् । इति न्यायात्तदव्यतिरेकेऽपि पृथग्व्यवस्थाप्यत इत्यवसातव्यम् । तथा चोक्तम् ।
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरासवाः । स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥१॥ इति तदनु स्मृत्युपस्थानाधार्याष्टांगमार्गबोधिपक्षाः पूर्ववदप्रमाणानि मैयादिचतुर्ब्रह्मविहाराः। अध्यात्म रूप्यरूपी बहिर्धा रूपाणि पश्यतीति हौ। शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येकः। आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानौति चत्वारः। संज्ञावेदितनिरोध इत्येक इत्यष्टौ विमोक्षाः। रूपधातुचतु•नानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नवसमापत्तयः। पृथिव्यप्तेजोवायुनौलपोतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम्। अध्यात्मरूपारूपसंजिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तानभिभूय जानौत इति चतुष्टयम् । अध्यात्मरूपसंज्ञो एव नौलपोतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम् । परसन्तान