SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ऊनत्रिंशत्तमपरिवर्तः । गतक्लेश र प्रबन्धोन्मूलनात् ममाधिरित्यरणा सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्याऽऽसंसारमासमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानं षडभिज्ञाश्चतस्रः प्रतिसंविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः । श्रयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानविज्ञानधर्मवशिता इति दशवशिताः । बलानि दश चत्वारि वैशारद्यानि पूर्वमुक्तानि । परिशुद्धकायवाङ्मनः समुदाचारस्तथागतो नास्त्यस्य विपरीत समुदाचारता यां परपरिज्ञानभयात् प्रच्छादयितव्यां मन्येतेत्यरक्षणं चिविधम् । धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपेक्षकः । स्मृतिमान् विहरतौति स्मृत्युपस्थानं त्रिधा सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्य संमोष - धर्मता । क्लेशज्ञेयावरणानुशयरूपबौजप्रहाणाद्दासनायाः समुद्धतः सकलजनहिताश्यता महतौ करुणा जनेऽष्टादशावेणिका धर्माः सर्वाकारज्ञता च । तथा मार्गज्ञतादयोऽपि प्रागुक्ताः । सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चवज्ञानात्मका धर्मकायो द्वितौयोऽभिधीयत इति केचित् । तथा चोक्तम् । बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मिकम् ॥२॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ ३॥ सर्वाकारश्चतस्रोऽथ शुद्धयो वशिता दश । बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥४॥ ५२२
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy