SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ अभिसमयालवारालोकः । ५१७ माह। सिंहनादनदनतयेति। एतदक्तं त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितामयंकारपारिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात्, सम्यक् दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेणार्याष्टाङ्गमार्गतया च परमार्थतोऽस्मरणलक्षणेन विविधबुड्वानुस्मरणेन यथाक्रम निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववदार्यावैवर्तिकबोधिसत्त्वसङ्घस्मरणेन तथैव शौलत्यागदेवतानामनुस्मरणेन रूपादिसर्वधर्माभावे स्वभावेनावबुद्धेन च योऽधिगमः सानुपूर्वक्रिया ममेत्येवमविपरीतार्थप्रतिपादनेन सिंहनादसमत्वात्सर्वधर्माणां सिंहनादनदनतयाऽनुपूर्वाभिसमयोऽनुगन्तव्य इति । तथा चोक्तम् । दानेन प्रज्ञया यावद्दुद्धादौ स्मृतिभिश्च सा। धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥१॥ इति अनुपूर्वाधिकारः षष्ठः । विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधार्थमाह। सर्वधर्मा कोप्यतयेति। एकक्षणाभिसम्बोधं प्रत्यन्यथाकर्तुमशक्यत्वेनाकोप्यत्वाद्रपादौनां सर्वधर्माकोप्यतया प्रज्ञापारमितानुगन्तव्येत्यवयवार्थः। समुदायार्थः सूच्यते। लक्षणेनैकक्षणाभिसम्बोधश्चतुर्विध इति। प्रथमं तावदेको भावः सर्वभावस्वभावः सर्वे भावा एकस्वभावाः। एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टा इति न्यायान्न केवलं बहुभिरेकस्य संग्रहः, अपि त्वेकक्षणदानादिज्ञानेनालख्यमानेनापगतप्रतिनियतवस्तुग्रहणवि
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy