________________
५१६
ऊनत्रिंशत्तमपरिवर्तः । धर्माणां तथैव स्थितिलक्षणभावाच्चित्तचरितापर्यन्ततयेति । पोडशविप्रतिपत्त्यर्थमाह। कुशलाकुशलधर्मापरिमाणतयेति । स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च विप्रतिपत्तेर्निराकरणाय भूतकोटिरूपेण कुशलाकुशलानुपलब्धिस्वभावत्वात्सर्वधर्माणां पूर्ववद्भावनासद्भावात्कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमिताऽपरिमाणतानुगन्तव्या विषयभेदेन भेदानन्त्येऽपि विप्रतिपत्तीनां मन्निहितविनेयजनविप्रतिपत्तिनिराचिकौर्षया यथोक्ता एव परस्परविरुद्धा भाषार्थानुस्थानेनायुज्यमानतया संशयरूपाः पोडशविप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः। मर्वेषामेव विदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासंभवमुभयसत्याश्रितोपायकौशलेन निरा. कृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याण कार्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति प्रतिपत्तव्यम् । तथा चोक्तम्।
__ जल्याजल्पिप्रवादिनाम् ॥ ३९ ॥ आलम्बनोपपत्तौ च तत्स्वभावावधारणे । मर्वाकारज्ञताज्ञाने परमार्थे ससंदृत्तौ ॥ ४० ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥४१॥ लक्षणे भावनायाञ्च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा पोडा दश च वादिनाम् ॥४२॥ इति मू भिसमयसमाधिकारः पञ्चमः । प्राप्तमू भिसमयो व्यस्तसमस्तत्वेनाधिगतानाननुपूर्वीकृत्य स्थिरीकरणाय विभावयतौत्यनुपूर्वाभिसमयार्थ