________________
अभिसमयालवारालोकः।
५१५
पत्त्यर्थमाह। सर्वधर्मसमाधिरित्यादि। दानाद्युपलम्भेनोपायकौशले विप्रतिपत्तेनिराचिकौर्षया धर्मधातुरूपत्वात्सर्वधर्मसमाध्यपर्यन्ततासमत्वेन सर्वधर्माणां तथैवोपायकौशलसद्भावात् सर्वधर्मसमाध्यपर्यन्तताप्रतिलम्भितया। दशमविप्रतिपत्त्यर्थमाह। सर्वबुद्धेत्यादि। भावाभावोभयरूपाधिगमप्रतिषेधात्तथागताभिसमये विप्रतिपत्तेनिराकरणाय तथतारूपेण बुद्धधर्मस्वभावत्वात्सर्वधर्माणां योगिसंवृत्या तथागताभिसमयावस्थानात्सर्वबुडधर्मापर्यन्ततया। एकादशविप्रतिपत्त्यर्थमाह। सर्वधर्मापर्यन्ततयेति । प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे विप्रतिपत्तेर्निराचिकौर्षया धर्मतारूपेणापर्यन्तधर्मतात्मकत्वात्सर्वधर्माणां पूर्ववद्यवस्थापितमित्यादिविपर्याससद्भावात्सर्वधर्मापर्यन्ततया। द्वादशविप्रतिपत्त्यर्थमाह । शून्यतापर्यन्ततयेति। विभावितमार्गफलासाक्षाकरणेन मार्गे विप्रतिपत्तेर्निराकरणाय मायोपमत्वेन शून्यतापर्यन्तधर्मत्वात्सर्वधर्माणां सत्त्वेनाधिगमाभावाश्छ्न्य तापर्यन्ततया। त्रयोदशचतुर्दशविप्रतिपत्तिद्दयार्थमाह । चित्तचैतसिकापर्यन्ततयेति। हानोपादानाभावेन विपक्षे प्रतिपक्षे च विप्रतिपत्तिं निराकर्तुमविद्योद्भूतप्रतिभासचित्तचैतसिकापर्यन्तत्वेन सर्वधर्माणां संत्यावस्थापितविपक्षप्रतिपक्षभावाच्चित्तचैतसिकापर्यन्ततया। पञ्चदशविप्रतिपत्त्यर्थमाह । चित्तचरितापर्यन्ततयेति। धर्म्यभावाद्धर्मलक्षणे विप्रतिपत्तेनिराचिकौर्षया प्रतिभासनिबन्धमात्रपदार्थावस्थानाच्चित्तचरितोत्पत्तिलक्षणत्वेन सर्व