Book Title: Prajnaparamitas 01
Author(s): Gieuseppe Tucci
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 626
________________ एकत्रिंशत्तमपरिवर्तः। लिख्यते । तत्रादौ सर्वाकारज्ञताद्यनुपूर्वाभिसमयपर्यन्तस्य षट्प्रकाराभिसमयक्रमस्य प्रत्येक प्रयोगदर्शनभावनामार्गस्वभावप्रतिपादनाय सर्वधर्मसमतयेत्याद्यष्टादशपदानि । तदनु चतुर्विधैकक्षणाभिसमयार्थकथनाय पृथिवौधात्वपर्यन्ततयेत्यादि पदचतुष्टयं, तदनन्तरं तु कायत्रयस्य शून्यतैकरसत्वज्ञापनार्थमाकाशधात्वपर्यन्ततयेत्येकं पदम् । अतोऽनन्तरन्तु धर्मसम्भोगनिर्माणकायत्रयस्वरूपनिवेदनार्थ विज्ञानधात्वपर्यन्ततयेत्यादि पदत्रयम्। तदनन्तरं च सम्भाराष्टाधिमुक्तिबोधिसत्त्वतथागतभूमिषु धर्मकायस्य यथाभव्यं विनेयजनप्रतिष्ठापनकर्मपरिदीपनार्थं सर्वधर्मानुपलब्धितयेत्यादि पदचतुष्टयं वेदितव्यमित्ययं समुदायार्थः । पदार्थस्तु विभक्तप्राय एवेति न पुनर्विभज्यते । आर्यधर्मोद्गताधिष्ठानेन स्वप्रणिधिपुण्यज्ञानबलाच्च श्रुतचिन्तामयज्ञानोत्पादक्रमेण यथोक्ताष्टाभिसमयस्वभावप्रज्ञापारमितादेशनाकाराः समाधयः। स्वप्नावस्थायामिव तावत्कालप्रतिभासाः सदाप्ररुदितबोधिसत्त्वस्योत्पन्ना इत्याह । अथ खलु सदाप्ररुदितस्येत्यादि (p. 526, 3) । यस्मिन् समाधौ व्यवस्थितः सर्वधर्मसमतां प्रतिपद्यते स सर्वधर्मसमता नामः समाधिरेवं संर्वधर्मविविक्तश्च नाम समाधिरित्यादि वाच्यम् । सर्वथा तु यथानिर्दिष्टप्रज्ञापारमितालम्बनसमाधौनामधिगमरूपेण दृढप्रतिभासित्वे सूचविरोधः। तथा हि प्रथमेन कल्यासंख्येयेन सम्भारभूमिमारभ्य यावत्प्रथमा भूमिनिष्यद्यते द्वितीयेन तु विमलाभूमिमुपादाय यावत्सप्तमौ भूमिः, तृतीयेन पुनः

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677