________________
एकत्रिंशत्तमपरिवर्तः। लिख्यते । तत्रादौ सर्वाकारज्ञताद्यनुपूर्वाभिसमयपर्यन्तस्य षट्प्रकाराभिसमयक्रमस्य प्रत्येक प्रयोगदर्शनभावनामार्गस्वभावप्रतिपादनाय सर्वधर्मसमतयेत्याद्यष्टादशपदानि । तदनु चतुर्विधैकक्षणाभिसमयार्थकथनाय पृथिवौधात्वपर्यन्ततयेत्यादि पदचतुष्टयं, तदनन्तरं तु कायत्रयस्य शून्यतैकरसत्वज्ञापनार्थमाकाशधात्वपर्यन्ततयेत्येकं पदम् । अतोऽनन्तरन्तु धर्मसम्भोगनिर्माणकायत्रयस्वरूपनिवेदनार्थ विज्ञानधात्वपर्यन्ततयेत्यादि पदत्रयम्। तदनन्तरं च सम्भाराष्टाधिमुक्तिबोधिसत्त्वतथागतभूमिषु धर्मकायस्य यथाभव्यं विनेयजनप्रतिष्ठापनकर्मपरिदीपनार्थं सर्वधर्मानुपलब्धितयेत्यादि पदचतुष्टयं वेदितव्यमित्ययं समुदायार्थः । पदार्थस्तु विभक्तप्राय एवेति न पुनर्विभज्यते । आर्यधर्मोद्गताधिष्ठानेन स्वप्रणिधिपुण्यज्ञानबलाच्च श्रुतचिन्तामयज्ञानोत्पादक्रमेण यथोक्ताष्टाभिसमयस्वभावप्रज्ञापारमितादेशनाकाराः समाधयः। स्वप्नावस्थायामिव तावत्कालप्रतिभासाः सदाप्ररुदितबोधिसत्त्वस्योत्पन्ना इत्याह । अथ खलु सदाप्ररुदितस्येत्यादि (p. 526, 3) । यस्मिन् समाधौ व्यवस्थितः सर्वधर्मसमतां प्रतिपद्यते स सर्वधर्मसमता नामः समाधिरेवं संर्वधर्मविविक्तश्च नाम समाधिरित्यादि वाच्यम् । सर्वथा तु यथानिर्दिष्टप्रज्ञापारमितालम्बनसमाधौनामधिगमरूपेण दृढप्रतिभासित्वे सूचविरोधः। तथा हि प्रथमेन कल्यासंख्येयेन सम्भारभूमिमारभ्य यावत्प्रथमा भूमिनिष्यद्यते द्वितीयेन तु विमलाभूमिमुपादाय यावत्सप्तमौ भूमिः, तृतीयेन पुनः