________________
अभिसमयालवागलोकः ।
५५६
कल्यासंख्येयेनाचलाभूमिमारम्य यावबुद्धभूमिरित्येवं त्रिभिः कल्पासंख्येयैर्बुद्धत्वमधिगम्यत इति यथारुतमेव सूत्र विरुध्यते। किसामान्यात् त्रिभिः कल्पासंख्येयैरित्यक्तं न पुनः परमार्थत इत्येवं नेयार्थसूचव्याख्याने नितरामेव विरोधः। तथा हि सम्भारभूमिमापूरयन्ने कल्पासंख्येयमतिकामति, तदनन्तरमधिमुक्तिर्याभूमिं निष्यादयन् कल्पासंख्येयदयमतिनामयति । तदनु प्रमुदिताभूमिमुपादाय यावद्धर्ममेघां बोधिसत्त्वभूमिं प्रत्येकं त्रिभिस्त्रिभिः कल्पासंख्येयैर्बोधिसत्त्वो निष्पाद्य समन्तप्रभां बुद्धभूमिमासादयतीत्येवं त्रयस्त्रिंशता कल्पासंख्येयैर्बुद्धत्वं प्राप्यत इत्याचार्यवसुबन्धुपादाः। यथोक्ताष्टाभिसमयात्मकप्रज्ञापारमितादेशनालम्बनसमाधिबलादहूनि समाधिमुखानि प्रथमायामेव भूमावधिगतानीत्यादि। एवं प्रमुखानीत्यादि। अत्र समाध्यभिनिर्हारोपाया एव समाधिमुखानि न तु समाधयः “प्रमुदितायां भूमौ समाधिशतं लभत" इति दशभूमकेऽभिहितत्वात्। समाधिस्वभावान्येव वा समाधिमुखानि। तत्र शतग्रहणस्योपलक्षणत्वादिति प्रतिपत्तव्यम् ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
धर्मोगतपरिवर्तो नामैकस्त्रिंशत्तमः ॥