________________
द्वात्रिंशत्तम परिवर्तः ।
सम्यगधिगतानामेव समाधौनां व्यापारकथनार्थमाह । मह प्रतिलब्धानां च सुभूत इत्यादि (p. 527, 2) | पुनरप्यादरोत्पादनाय परौन्दनार्थमुपोद्वातयन्नाह । तत्र खलु पुनर्भगवानित्यादि । तदनेनापीति । यस्मादार्यसदाप्ररुदितस्यैवमर्थकारिका । तस्मादनेनापि न केवलं प्रागुक्तपर्यायेणेत्यर्थः तथागताधिष्ठानेनेति महानुशंसत्वेन बद्धन्तरायत्वात्सहसापि लिखितुमशक्या । तस्मात्तथागतानुभावेनोपोद्वातं कृत्वैवं परौन्दनामावेदयन्नाह । तस्मातर्ह्यनन्दत्यादि । किं निबन्धनेयं विस्तरेण परौन्दनेति । तत्कस्य हेतोरित्याशङ्कयाह । अव हि प्रज्ञापारमितायामित्यादि (1) 528, 8)। तदेव स्पष्टयन्नाह । तत् किं मन्यस इत्यादि । एवं संक्षिप्तविस्तर रुचिमत्त्वानुग्रहेण सर्वाकारज्ञतादयः सकारिचधर्मकायावसानाः सर्व एवाष्टौ पदार्थाः समुपजाता भवन्ति । अथवा प्रथमं सर्वाकारजतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम् । ततो वशित्वार्थं चिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति चिसर्वज्ञताप्रयोगः सर्वाकाराभिसंबोधः । ततोऽत्यभ्यासात्प्रकर्षागमन मिति त्रिसर्वज्ञताप्रकर्षावस्थो मूर्धाभिसमयः । ततोऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणौकरणमिति सर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमयः । ततो विशेषगमन - भावात्त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः । ततस्तस्य फलमिति चिसर्वज्ञताविपाको धर्मकायः सकारिच इत्यमुना षट्प्रकारेणार्थसङ्ग्रहेण संक्षिप्तमध्यरुचिसत्त्वानुकम्पया पूर्ववदियं जिनजननी व्याख्येया । तथा चोक्तम् ।
-
५६०