________________
अभिसमयालङ्कारालोकः। लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः ।
तनिष्ठा तद्दिपाकश्चेत्यन्यः षोडार्थसङ्ग्रहः ॥१॥ इति । अथवाऽऽदौ सर्वाकारज्ञतादिविसर्वज्ञताखभावः प्रवृत्तिगोचरत्वाविषयः। स कथं प्रयुज्यत इति। तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमयो हेतुस्वभावः प्रयोगः। तस्यैवं प्रयोगवतो विषयस्य किं फलमिति । तदनु धर्मकायः सकर्मफलमित्येवं विविधेनार्थसङ्ग्रहेण संक्षिप्तसंक्षेपरुचिसत्त्वानुरोधेन तथैवेयं भगवती व्याख्येया। तथा चोक्तम् ।
विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः ।
धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसङ्ग्रहः ॥ २॥ इति इदमवोचद्भगवानित्यादि (p. 529, 9)। सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव निःसरन्ति यथाकामं कुद्यादिभ्यो देशना इति न्यायेन भव्यविनेयजनदैशिकत्वाध्यवसायादिमनन्तरोदितमखिलं प्रज्ञापारमितासूचरत्नतत्त्वमवोचदक्तवान् भगवानात्तमना हृष्टचित्तः। यद्यपि चान्यैरार्यसुभूतिप्रभृतिभिरपि किञ्चिदक्तम्, तत्तु भगवदाधिपत्यादेवेत्यदोषः। ते चार्यमैत्रेयप्रमुखा महाबोधिसत्त्वा विभक्तिविपरिणामेन सम्बन्धादात्तमनसो भाषितमभ्यनन्दन्निति सम्बन्धः । चकारः सवर्बोत्तरापेक्षया समुच्चयार्थः। तथार्यसुभूतिरप्यात्तमना वचनविपरिणामेन सम्बन्धाद्भाषितमभ्यनन्ददिति सम्बन्धः। एवमार्यशारिपुत्राद्यपेक्षया प्रत्येक योज्यम् । देवमानुषासुरगन्धर्वैः सह वर्तत इति सदेवमानुषासुरगन्धर्वो लोकः। ननु च कोऽपरस्तद्यतिरिक्तो