________________
५६२
द्वात्रिंशत्तमपरिवर्तः । लोकोऽस्ति यस्तैः सह वर्तत इत्युच्यते। समुदायसमुदायिनोर्भेदापेक्षया तथावचनाददोषोऽयम् । अपि च सन्त्यन्येऽपि बहवः किन्नरमहोरगगरुडादय इत्यचोद्यमेतत् । एते सर्वेऽपि सद्धर्मश्रवणान्नान्यत् स्वहितं परहितं च गुरुतरमुपलब्धवन्तः, अतः प्रमोदकारणसद्भावात् संजातप्रमोदातिशयाः सन्तो भगवता भाषितं साधु भगवन् परमेश्वर करुणामयमूर्ते सुभाषितमिदं युष्माकं वचमित्यादिनाऽभ्यनन्दन्नित्यभिनन्दितवन्त इत्यर्थः ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः ॥