________________
अभिसमयालबारालोकः । सर्वैवाधिगमार्थतत्त्वपदवी सम्यक्समुद्योतिता संक्षिप्तादिपदाभिधानकुशलैरेवं यतो नायकैः । सर्वस्मिन् विहितश्रमैः प्रवचने ज्ञेयो विशेषस्ततः प्रज्ञापारमितानये पुनरयं ग्रन्थात्मकः केवलः ॥
आर्यासङ्गमतानुसारिसुधियां निर्मत्सराणां सतां भद्रस्यापि गुरोर्बहुश्रुतवतो वैरोचनज्ञानिनः । सामर्थ्यादुपजातपाटवलवो भद्रोऽकरोद्भक्तितः स्पष्टार्थी हरिसंज्ञको भगवतीमार्यामिमां सर्वशः ॥
तथ्यातथ्यविभागयुक्तिविकलज्ञानोदयात्संरतौ संसारार्णवपकनिमग्नमनसो जाताः सदा देहिनः । सर्वेऽमी जननौनिबन्धनकृताहौजान् मयाऽप्ताच्छुभात् साकारवरा भवन्तु नियतं कायत्रयप्रापिणः ॥
संबुद्धैः ससुतैरियं सुविता माता व वा संस्थिता काहं धौधनसम्पदामविषयो वाचां तथाऽगोचरः । भूयासं जड एवमेति सततं जन्मान्तरेषप्यहमभ्ययैव मिदं कृतं न विदुषां युक्तं समुल्लड्तुिम् ॥
इशिल्यवितुद्यमानहृदयाः शक्ता न कर्तुं क्षति मिथ्यामानबलार्जितश्रुततया प्रज्ञावतामग्रतः । पातालादिव खं विदूरमसतां पुंसां सताश्चान्तरं तस्मादेव तथाविधान् प्रति न नः सूक्ष्मापि काचिद्यथा ॥