________________
अभिसमयालङ्कारालोकः ।
भावादिचिकित्साप्रहाणे दर्शनप्रहातव्यक्लेशगणप्रहाणं धर्मनैराग्यदेशनाबलादधिगतदर्शनमार्गमामर्थ्येन परिदीपयत्यतोऽनुत्तरबोधिं प्रति न पुनर्विचिकित्सा प्रवर्तते। कुशलमूलपरिपूरिमुपादायेति (p. 520. 6) प्रथमभूम्यधिकारेण दानपारमिताऽतिरिक्ततामुपादायेत्यर्थः। सप्तवर्षाणौति॥
न कृपा मन्दतेदानौं न च मे धर्ममत्सरः । नाचार्यमुष्टि शक्तिर्न च मे दःखशीलता ॥ न च मे निष्ठितं शास्त्रं तर्कयामि न चान्तिकात्। आज्ञातुं न च मे शक्ताः विनेया न च सादराः ॥ न देशयामि येनेति ज्ञापयन् परितर्षयन् ।
दौ मासौ प्रतिमलौनो भगवानर्धमेव च ॥ इति न्यायादार्यसदाप्ररुदितस्य परिशुद्धाशयताजिज्ञामाथं सप्तवर्षाणि समापन्न एव स्थित इत्येके। दर्शनमार्गाधिगमबलेनाधिगतसप्तसम्बोध्यङ्गानां सर्वाकारपरिशोधनार्थमित्यपरे। आशयपरिशुद्ध्या भावनाबलादविपरौतनिमित्तप्रतिभासो जायत इत्याह। अथ खलु मदाप्ररुदित इत्यादि। प्रतिसंख्यायेति । एवं विचिन्त्य, ऋड्यभिज्ञासम्भवेऽपि न तया पूजा कृतेति। शरीरविक्रयमूल्यग्रहणवद्याख्येयम् । कोदशौं प्रज्ञापारमितां देशयामासेत्यादि। तत्रेयं धर्मोहतस्येत्यादि (p. 523, 20)। यद्यपि सर्व एव सर्वधर्मसमतादयो देशनाप्रकारा धर्मनैराग्यद्योतकत्वेन तुल्यास्तथापि पौरुषेयत्वादक्तरभिप्रायं कार्यतया सूचयेयुरमौ शब्दाः, तस्मादविच्छिन्नपारम्पर्यसम्प्रदायत्वेनाभिप्रायद्योतनादेषामर्थभेदोऽवगन्तव्य इत्येके। अथ तन्मतमेव