________________
एकत्रिंशत्तम परिवर्तः ।
स्वविज्ञानजनकत्वाभावेऽन्धबधिरादित्व
क्षणजनकत्वेन प्रमङ्गः स्पष्टः प्रसज्यते । स्वविज्ञानजनकत्वे चाऽभ्युपगम्यमाने चक्षुरादिजात्युच्छेदेने कस्माज्ज्ञानक्षणादूर्ध्वं न चक्षुरादयो नापि ज्ञानमिति तदेवान्धत्वादिकमनायामेन जगतः प्राप्तम् । अतो ये प्रतीत्यसमुत्पन्नास्ते परमार्थ - तोऽविचारकर मणौयास्तद्यथा मायाकारनिर्मिताः करभादयः । तथा चामौ मर्वे रूपादयो भावा इति स्वभाव - हेतुः । यथादर्शनं प्रतौत्योत्पाददर्शनान्नासिडो हेतुः मपक्षे भावान्न विरुद्धः पूर्वप्रबन्धेन विपक्षे बाधकप्रमाणोपदर्शनादनैकान्तिकथ न भवतौत्यमुना न्यायेन प्रत्ययाधौ नवृत्तित्वाद्यथाशब्दः प्राज्ञप्तिकस्तथा भगवतां कायो व्यवस्थापित इति । तत्रोपादानकारणाधीनत्वेन हेत्वधौना सहकारिकारणजन्यत्वात्प्रत्ययाधौना विनेयानां कुशलमूलबलेन
प्रतिभामगमनादनेककुशलमूलप्रयोग
निष्पन्ना । यथोक्तधर्मप्रत्यवेक्षायाः प्रयोजनार्थमाह । यतः gaytwife (p) 516, 12) | यस्मादेवमनन्तरोक्तक्रमेण यदा सर्वधर्माननुत्पन्नाननिरुद्धान्दर्शनमार्गाधिगमेन त्वं सम्यक् प्रज्ञास्यसि, तस्माद्भावाद्यभिनिवेशलक्षणं विपर्यासं तद्विरोधिनैः स्वाभाव्यज्ञानात्प्रहाय तन्मूलं मकलं क्लेशज्ञेयावरणं क्रमेणापाकुर्वाणः प्रथमादिभूमौ नियतो भविष्यस्यनुत्तरबोधावित्यर्थः। विनेयानामविपरीतधर्म देशनाबला - दधिगमो जात इति प्रतिपादयन्नाह । अस्मिन् खलु पुनरित्यादि । न च मे भूयो विचिकित्सा प्रवर्तत इति ( p. 518, 1 ) । एकयोगक्षेमानां मध्येऽन्यतरस्यैकस्य प्रहाणा
५५६