________________
अभिसमयालङ्कारालोकः ।
विधायि कार्य स्यादित्यहेतुकत्वप्रसङ्गः यावता चक्षुषः सकाशाद्भेदजनननियतस्वभावाच्चक्षपो विज्ञानस्य वा चक्षुःस्वभावस्योदयात्कथं न भेदोत्पत्तिः। तथाहि न कारणं प्रति कार्य परस्परविलक्षणाभिः शक्तिभिरनुगतमिति भिन्नं कार्य करोतीत्यपितु स्वभावादिति। तमेव तत्स्वभावं पर्यनुयुज्महे कोऽयं स्वभावो नाम विश्वरूपो येन प्रागक्तानेकप्रकारविरोधेऽपि तत्तिरस्क्रियया स्वपक्षरक्षामाचरन्नपास्तान्यप्रतिसमाधानचिन्ताभारो भवान सुखमासीत्। हेतुधर्मसामर्थ्यमिति चेत्, नैवं प्रागेव निराकृतत्वात्। परिदृश्यमानरूपतेत्यपि न वक्तव्यं, यस्माद्र्पादिनिर्भासवति प्रत्यये प्रतिभासमानस्य शास्त्राद्याश्रयेण परिकल्पितरूपस्य तत्त्वोत्पत्त्याद्याकारस्य निषेधाद्यया बुद्ध्या तत्त्वं सन्ध्रियते, यस्यां वा बुद्धौ मा तादृशौ लोकप्रतौतिः संतिरिष्टा तया सर्वमिदं प्रतीयमानस्वरूपं विश्वं मत्यं, अन्यथाऽलौकम्। अतो यथादर्शनं कार्यकारणभावो दर्निवारस्तथा च सति यत् कैश्चिदेवं दूपणमुच्यतेऽभावः संवृतिरुत्पादो भाव इति युगपदर्थक्रियायां योग्यमयोग्यं वस्त्वभ्युपगतम्। अथोत्पादः संवृतिस्तदा संत्योत्पाद इत्यस्य वाक्यस्योत्पत्त्योत्पाद इत्यभ्युपगमान्न किञ्चिदनिष्टमापतितम् । तथानुत्पादः परमार्थ इत्येवं परमार्थन नोत्याद इत्यस्यानुत्पादेन नोत्याद इत्यर्थः । तथा च सिद्धसाध्यतेत्यादि। तत्संतिलक्षणानभिज्ञतया प्रकृतानुपयोगिकेवलमभिमानादसङ्गतमुक्तम् । अथैकमेव कारण मेकं कार्यं कुर्यादिति चतुर्थः पक्षोऽभ्युपगम्यते सोऽयं नितरामेव न राजते। तथा हि चक्षरादौनां सजातीय