________________
५५४
एकत्रिंशत्तमपरिवर्तः ।
यतोऽवेयं विचारणा क्रियते । चक्षुर्येन स्वभावेन चक्षुःक्षणं जनयति किन्तेनैव चक्षुर्विज्ञानमपि । तेनैव चेत्तदपि विज्ञानं चक्षुरेव स्यान्चक्षुर्जननस्वभावकारणजन्यत्वाच्चक्षुर्वत्। एवं येन वा स्वभावेन चक्षुर्विज्ञानं जनयति तेनैव चक्षुरपि। एवं चक्षुर्विज्ञानजननस्वभावकारणजन्यत्वाच्चष्टुरपि चक्षुविज्ञानं स्याच्चक्षुर्विज्ञानवत् । यदि वा प्रत्येकं चक्षुरचक्षुजननस्वभावकारणजन्यत्वाचार चक्षुःस्वभावं चक्षुः स्यात्, एवं विज्ञानाविज्ञानजननस्वभावकारणजन्यत्वाविज्ञानं विज्ञानाविज्ञानस्वभावं स्यात्। एवमेतदित्यभ्युपगमे च सुतरां प्रत्यक्षायुपहतिौढ भवन्तमाश्लिष्यति। अथान्येन स्वाभावेन चक्षश्चक्षःक्षणं जनयत्यन्येन चक्षुर्विज्ञानमितिमतम्। तौ स्वभावौ किञ्चक्षपो व्यतिरिक्तावथाव्यतिरिक्तौ। यदि व्यतिरिक्तौ तदा तावेवार्थक्रियालक्षणत्वादस्तुनो जनको वस्तुनौ स्यातां चक्षुत्ववस्तु स्यादकिञ्चित्करत्वात् । अथाव्यतिरिक्तौ तदा चक्षपोऽप्येकाभिमतस्य भेदः स्यात्परस्परभिन्नस्वभावाव्यतिरेकात्, स्वभावद्दयवत् । तथा चैकत्वं हौयते। स्वभावयोर्वा पुनरैक्यं स्यादेकस्माच्चक्षुषोभिन्नत्वाच्चक्षर्वत्तत्र चक्षुर्येन स्वभावेनेत्यादिनोक्तो दोषः । अथ मतं स्वहेतोरेकजननस्वभावमुत्पन्नं कारणं यथा कार्यमेकं जनयति तथा स्वहेतोरेवोत्पन्नमने जनयतीति । एवं तु ब्रुवाणैः प्रकरणमेव विस्मृतम् । तथा हि यथैकस्यानेकजनकत्वं निराचिकौर्षितं तथैकजनकत्वमपौति किं माध्यमिकं प्रत्येवमुच्यते। अमाध्यमिकं प्रत्यपि निष्फलमिष्टत्वादेकानेकजनकत्वस्य तेन। स्यादेतत्, यदि भेदजनननियतस्वभावादभेदोत्पत्तिः न तर्हि कारणस्वभावानु