________________
अभिममयालङ्कारालोकः ।
५५३ वस्तुतः चन्द्रतारकादिवझेदान्न केवलं व्यतिरिक्तमेव सामान्यं बलादापतति, नानेकत्वयोः परस्पराहतिलक्षणोऽपि दोषः। किन्तर्हि बोधरूपादनन्यत्वेऽभ्युपगम्यमाने रूपाविज्ञानकार्यस्य न सम्भवो बोधरूपादन्यत्वाबोधरूपस्वात्मवत् । विषयाकारादनन्यत्वाद्र्पतोऽपि तस्य मम्भवो विषयाकारस्वात्मवदित्येक एव कार्ये सम्भवासम्भवौ कारणे चैकत्र जनकाजनको युगपत्तत्त्वतो विरुध्यते । स्यादेतत्। तथा हि कार्यमुत्पद्यमानं दृष्टमिति । तदयुक्तम् । नहि मर्वं दर्शनं बाध्यमानमपि प्रमाणेन प्रमाणं, माभूद्विचन्द्रादिदर्शनस्यापि प्रामाण्यमिति। अथैकमेव कारणमनेकं कायं कुर्यादिति तृतीयः पक्षोऽभ्युपगम्यते । तदयुक्तम् । एकस्मादनेककार्योत्पत्ती न कारणाभेदः कार्यस्याभेदक इति भेदोऽपि भेदस्य न हेतुरिति भेदाभेदौ विश्वस्याहेतुको स्याताम् । अभिन्नस्यापि स तादृश आत्मातिशयो येनैकोऽपि हेतुरनेकं कार्य करीतौति चेत् । म हेतुर्येनात्मातिशयेनैकं कार्यञ्जनयति किन्तेनैवापरम्। तेनैव चेत्, कथं भेदः फलस्य । अथान्येनैवं तर्हि कारणाभेदो न युक्तिमान् न ह्यात्मातिशयादन्यो भावः। स्यादेतत्, यदि कार्यस्वभावापत्त्या कारणं कार्य जनयति, यथा सांख्यस्य तदा भवेदेकस्यानेकरूपापत्तिविरोधादनेकजननमयुक्तिमत्। यावता भेदाभेदजनननियतस्वभावकारणसन्निधिमात्रेण भेदाभेदकार्योत्पत्तौ नेदञ्चोद्यमास्कन्दति । अयमेव हि कारणभेदाभेदाभ्यां कार्यस्य भेदोऽभेदो वा यद्भेदाभेदजनननियतस्वभावाकारणाभिन्नाभिन्नकार्योत्पत्तिरिति । एतदपि मिथ्या ।