________________
५५२
एकत्रिंशत्तमपरिवर्तः।
मेकमनेकं स्यादपलम्भात्मतादिभ्योऽभेदादपलम्भात्मादिस्वात्मवत्। अथा भेदस्तेभ्यो न सिद्धस्तथा च नानेकत्वं विज्ञानस्य भविष्यतीति चेत् । भेदे तेभ्योऽभ्युपगम्यमाने तविज्ञानं निर्हेतुकमेव स्यात्कारणव्यापारस्य विज्ञानादन्यत्रोपलम्भात्मतादिषपयोगादेवं च नित्यं सत्त्वमसत्त्वं वा भवेदिति दोपः। अथ यथोक्तदोषभयाऽदो नाभ्युपगम्यते। तथा च सत्युपलम्भात्मतादीनां परस्परतो भेदो न स्यादेकविज्ञानस्वरूपत्वादिज्ञानस्वात्मवत् । अतः कारणव्यापारविषयभेदकल्पनावैयाद्भिन्नस्वभावेभ्यश्रक्षरादिभ्य इत्यादिना प्रागुक्तो दोपः ममापतति । अथ मतम् । कार्यस्वभावस्यानेकस्मादनुपलम्भात्मतादेावृत्तिमतः समुत्पत्तिदर्शनाधर्मभेदकल्पनामास्थाय बोधात्मकान्मनस्काराहाधरूपतेत्यादिना कारणानुरूप्येणोपलम्मात्मतादिधर्मभेदः कारणव्यापारविषयभेदेन कल्पनासमारोपितः, तस्य चासत्त्वात्तेभ्योऽभेदाज्ञानस्यानेकत्वमेकस्माज्ञानादनन्यत्वातेषामभेद इति प्रयोगदयेऽसिद्धो हेतुरिति । यद्येवं ते विशेषाः कल्पनोपरचितत्वेन व्योमोत्पलादय इव न हेतुव्यापारमपेक्षन्त इति कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्तौति न युक्तमभिधातुम् । अथापेक्षन्त इति निबन्धस्तथा मति कल्पनाशिल्पिघटितेष्वेवोपलम्भात्मतादिषु कारणव्यापारी व्यवस्थाप्यमानः काल्पनिक एव भूतार्थो न स्यादेवञ्च कार्यमहेतुकं कारणव्यापारस्य कल्पितस्वभावेषपयोगात् । अथोक्तदोषभयादभिन्नमेकं कार्य विशेषाश्च भिन्ना न च कार्यात्मव्यतिरिक्ता इति मतिः। एवन्तर्हि भिन्नाभिन्नस्वभावाध्यासितत्वाधर्मधर्मिणो