________________
अभिसमयालङ्कारालोकः ।
મૂડ
प्रतिभासनात् । भ्रान्तोऽयं प्रतिभास इत्यपि मिथ्या, सत्यत्वाभिमतप्रतिभासस्यापि सत्यत्वनिबन्धनाभावात् । अर्थक्रियाकारित्वं सत्यत्वनिबन्धनमिति चेत् । नैवं, यस्मात् कार्यक्रियाकारित्वमेवार्थक्रियाकारित्वं यथोदितविधिना परमार्थतोऽनुपपद्यमानस्वरूपं मंस्त्याभ्यपगतमित्यनापकमेतत् । सर्वस्यैवालोकत्वे देशकालादिप्रतिनियमो न स्यादिति चेत् । स्यादेष दोषो यदि निर्हेतुकत्वमभ्युपगम्यते। यावता विचारविमर्दामहिषात्वेनाविचारकरम्यं पूर्वपूर्वस्वकारणं ममाश्रित्योत्तरोत्तरमौदृशं प्रतिनियतदेशकालादिमत्कायें प्रवर्तते। अत एव च संरत्यापि कारणवैकल्याच्छशविषाणादीनामनुत्पत्तिः । न्यायस्य तुल्यत्वे यथादर्शनमपि किं निषेधश्चेत्, प्रत्यक्षादिविरोधोपनिपातात्। न तद्ययं न्यायो बाधामम्भवादिति चेत् । नैतदेवंयथा न्यायस्तत्त्वतस्तथा बाधाऽनभ्युपगमात्। यथा च बाधा यथादर्शनं तथा न्यायाभावात् । अथ मतमनेकमेव कारणमनेकं कार्यं कुर्यादिति द्वितीयः पक्षोऽभ्यपगम्यते। कारणस्वभावविशेषस्य कार्यस्वभावविशेष व्याप्रियमाणत्वेन कार्ये कारणव्यापारविरचितानां स्वभावविशेषाणामसंकीर्णत्वात्। तथा हि समनन्तर प्रत्ययाद्विज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता। तस्यैव चोपलम्भात्मनश्रक्षुरिन्द्रियाद्रपग्रहणयोग्यताप्रतिनियमः विषयात्तत्तुल्यरूपतेत्यभिन्नत्वेऽपि वस्तुतः कार्यस्य निर्विभक्तरूपस्य कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्तौति न कारणभेदेऽप्यभेदस्तत्कार्यस्येति। तदयुक्तं, यस्मादपलम्भात्मतादीनां परस्परतो भेदेऽभ्युपगम्यमाने तद्विज्ञान