________________
एकत्रिंशत्तमपरिवर्तः ।
तदन्यस्मात्स्व हेतोरित्यनादिर्हेतुपरम्परा । तस्मादेवंविधहेतुपरम्परायाश्रेष्टत्वेनानवस्थापि न क्षतिमावहति । एवं विलक्षण कारणकलापादिलक्षणम विलक्षणाच्चा विलक्षणं कार्यं जायत इत्येतावतैवांशेन हेतुभेदाभेदाभ्यां फलस्य भेदाभेदावुक्ताविति । नैतत्सारं । यस्माद्य एवोभयनिश्रितवाचौ हेतुः म एव साधनं दूपणचेति न्यायादभेदाविशेषेऽपि हेतुधर्मसामर्थ्याद्यथा न सर्वं सर्वसाधकं तद्भेदाविशेषेऽपि न सर्वं सर्वमाधकमित्येवमभ्युपगतहेतुफलसम्बन्धं मांख्यादिकं प्रत्युच्यमानं शोभामाधत्ते । वस्तुतत्त्वतो हेतुफलभावापवादौ माध्यमिकस्तं प्रति स्वभावातिशयस्तेषां स्वहेतोरिति हेतुधर्ममामर्थ्यलक्षणो हेतुरसिद्धः स्वपक्षसिद्धये सिद्धवत् कथमुपादौयते । अथ मतम्। हेतुधर्मसामर्थ्यानभ्युपगमे प्रत्यक्षादिविरोधो दुर्निंवार इति । तदसत् । तत्त्वत इति विशेषणेन यथादर्शनमनिषेधात् । अयथादर्शनं तर्हि निषेध इति व्यक्तमिदं कूर्मरोभोत्पाटनम् । अयथादर्शनं कार्यकारणभावानभ्युपगमादिति चेत् । न । तत्त्वतः प्रमाणसहायत्वेनाप्रमाणसहायस्य कार्यकारणभावस्याभ्युपगमात्कथं नायथादर्शनमभ्युपगमः । तथा ह्येतावन्मात्रमेकमेव प्रत्यक्षे प्रतिभासते, यदुतास्मिन् सतौदं भवतीति । तच्चास्माभिरनिषिद्धमेव । यस्तु प्रमाणोपपन्नस्वरूपः कार्यकारणभावो वर्ण्यते स प्रत्यक्षसमाधिगम्यो न भवति निर्विकल्पकत्वेन प्रत्यक्षस्य प्रमाणोपपन्नस्वरूपावधारणासामर्थ्यवैकल्यात् । न च वस्तुप्रतिभासनादेव तदव्यतिरिक्ततथा विधस्वरूपस्य प्रतिभासनमिति युक्तं वक्तुमतथा विधस्वरूपस्यापि केशोण्डूकादेः
५५०