________________
अभिसमयालवारालोकः ।
५४६
स्वाभाव्यादिति चेत्, नैवं यस्माज्जनकान्यत्वमेवाजनकत्वं व्यवस्थापितम्। तस्मादेकस्य यो जनकः स्वभावस्ततोऽपरे व्यावर्तमाना जनकाः न प्राप्नुवन्ति। जनकादन्यत्वाद्भावान्तरवत् । स्यादेतत् । न हि बमोऽन्यस्य तज्जनकरूपं नास्तीति। किन्तु यदेकस्य तज्जनकं रूपं तदन्यस्य नास्त्यन्योऽपि स्वरूपेणैव जनको न पररूपेणातद्रपत्वात्। अतः स्वरूपाज्जनकाद्यात्त्यसिद्धेर्यथास्वं भिन्नाश्च जनकाश्च स्वभावेनेति कोऽत्र विरोधः। तथा टेकस्माज्जनकाद्यावर्तमानस्तद्र्पो न स्यान्न त्वतत्कार्यन्तेनैव च तत्कायें कर्तव्यं नान्येनेति कोऽत्र न्याय इति यद्येवमेकेनैव तत्कार्य कृतमिति किमपरेषां तत्कार्यकरण प्रयोजनम् । स्यादेतत् । न वै भावानां काचित् प्रेक्षापूर्वकारिता यतोऽयमेकोऽपि ममर्थः किमत्रास्माभिरित्यपरे निवर्तेरन् । ते हि निरभिप्रायव्यापाराः स्वहेतुपरिणामोपधिधर्माणस्तत्प्रकृतेस्तथा भवन्तो नोपालम्भमहन्तौति। एवं तोकेन हेतुना यः कार्यस्य स्वभावो जन्यते स एवापरेणेति प्राप्तम्। तथा च सति कारणवैलक्षण्ये कार्यवैलक्ष्यण्यादर्शनात्, कारणभेदो विसदृशस्याभिन्नस्य कार्यस्योत्पादकत्वेन भेदको न स्यात् । अथ मन्यसे परस्परविभिन्नमूर्तयोऽपि चक्षरादय एव केनचित्स्वभावातिशयेन चक्षविज्ञानजनने नियता नापरे क्षित्यादयः। तथा हि तेषामेव चक्षरादीनां स स्वभावातिशयो नापरेपाम्। एतावत्त स्यात् । कुतोऽयं स्वभावातिशयस्तेषामिति । निर्हेतुकत्वेऽनपेक्षिणो नियमाभावेनातिप्रसङ्गभयात् स स्वभावातिशयस्तेषां स्वहेतोरित्युच्यते। तस्यापि तज्जननात्मता