________________
५४
एकत्रिंशतमपरिवर्तः ।
विशेषाः। म च शब्दो न द्रोण्या निश्चरतीत्यादिना (].. 516, 1)। न ह्येकं जनकमिति कथयति। सर्वेषां समायोगाच्छब्दः प्रज्ञप्यत इत्यनेनापि प्राज्ञप्तिकशब्दनिर्देशन मामग्यास्तात्त्विकं जनकस्वभावं निरस्यति। एतदक्तं । अनेक कारणमेकं कायं करोत्यनेकं वा तथैकमपि कारणमनेकमेकं वा कायं कुर्यादिति चत्वारो विकल्याः। तत्र यद्यनेक कारणमेककार्यदिति पक्षस्तदा चक्षरूपालोकमनस्कारादिभ्यश्चक्षुर्विज्ञानस्यैकस्योत्पत्तावभ्युपगम्यमानायां कारणभेदेऽपि कार्यस्य भेदाभावान्न कारणभेदो भेदकः कार्यस्य स्यात । तथा च कारणाभेदाभावेऽपि कार्यस्याभेदान्न कारणाभेदः कार्यस्याभेदको भवेत्। ततश्च कारणभेदाभेदावन्वयव्यतिरेकाभ्यामनपेक्षमाणौ कार्यभेदाभेदावहेतुको स्याताम् । एवञ्च मति भेदाभेदाव्यतिरेकादिश्वस्य नित्यं सत्त्वमसत्त्वं वा स्यादहतोरन्यानपेक्षणात् । ननु सामग्री जनयित्री कार्यस्य तस्याश्च भेदाभेदानुविधानचतुराविमावन्वयव्यतिरेकानुविधायितया कार्यस्य भेदाभेदावतः कथं तावहेतुको भविष्यत इति चेत् । नैतत्सारम् । तथा हि न सामग्री नामान्या काचन ममग्रेभ्यः किन्तर्हि समग्रा एव भावाः सामग्रौशब्दवाच्याः ते च परस्परव्याहत्तस्वभावाश्रष्क्षरादयो भिन्नाः सन्तो यद्येकमेवाभिन्नं चक्षुर्विज्ञानं कार्यमुपजनयितुं शक्तास्तदा सामग्र्यन्तरान्तःपातिनोऽपि भावाः समग्राः किमिति चक्षुर्विज्ञानस्योपजननं न कुर्यः । भिन्नत्वेन चक्षुरादिभ्यः क्षित्यादयो नोपजनयन्तौति चेत् । चक्षुरादयोऽपि परस्परं भिन्नस्वभावाः कथं जनयन्तीति वक्तव्यम्। जनक