________________
५४७
अभिसमयालक्षारालोकः । शिष्याः। कल्पितादिपदार्थत्रयतत्त्वरूपनिषेधे सति नास्त्येव तथागत इति मन्दधौजनाशङ्कामपाकुर्वन् प्रतीत्यसमुत्पन्नस्तथागतोऽस्तोत्याह। तद्यथापि नाम कुलपुत्र महासमुद्र (p. 515, 1) इत्यादि। सत्त्वानां कुशलमूलान्युपादायेति। “कर्मजं लोकवैचियमि"ति वचनात् साधारणं सत्त्वानां शुभं कर्म प्रतीत्य संहत्या कुशलमूलहेतुकत्वान्न च तान्यहेतुकानि, येषां प्रत्ययानां सतामिति सामर्थ्य नेति शेषः। न चाहेतुको बुद्धानां भगवतां काय इति बुद्धविनेयानामेव सत्त्वानां कुशलमूलवशेन निष्पत्तिगमनानाहेतुकः कायः। साधारणकर्मनिर्जातत्वं निर्दिश्येदानौं भगवतामसाधारणकर्मनिर्जातत्वप्रतिपादनार्थमाह । पूर्वचर्यापरिनिष्यन्न इत्यादि । तत्राधिमुक्तिचर्याभूमिप्रभावितत्वात् पूर्वचर्यापरिनिष्यन्नः प्रमुदितादिसप्तप्रयोगभूम्यपादानहेतुनिर्जातत्वाऽत्वधीनः । अचलादिविविधफलभूमिसहकारिकारणोहतत्वात्प्रत्ययाधौनः। समन्तप्रभाभमिसङ्गहीतत्वात् पूर्वकर्मविपाकादत्पन्न इत्येवमेषामर्थभेद इति केचित् । तस्मान्न स्वाभाविकस्तथागत इत्याह। न क्वचिद्दशदिशोत्यादि। __यदर्थक्रियासमर्थं तदच परमार्थसत् ।
इति वचनात्, प्रमाणोपपन्नकार्यकारणसम्बन्धबलात्प्रतीत्यसमुत्पन्न एव तात्त्विकस्तथागत इत्यौपलम्भिकजनाभिनिवेशनिषेधार्थमाह। तद्यथापि नाम कुलपुत्र वौणाया इत्यादि। तत्रोपधानी तन्त्रौवेष्टनिका दण्डाग्रविन्यस्ता काष्ठादिवक्रलिका, उपवाणी पार्श्वस्थितास्तन्त्री