________________
५४६
एकत्रिंशत्तमपरिवर्तः । तस्मात्तदालम्बनं ज्ञानं भ्रान्तं निर्विषयत्वादित्यर्थः। पूर्ववत् तत्कस्य हेतोरित्याशंक्याह । न हि तथागतो रूपकायतो द्रष्टव्य इति कल्पितस्यैकान्तशून्यत्वान्न रूपस्कन्धात्मकस्तथागतः। परतन्त्राभिनिवेशनिषेधार्थमाह । तद्यथापि नाम कुलपुत्र मायेत्यादि। ग्राह्यग्राहकाकारस्यालोकत्वेन निर्मितस्य नास्यागमनादिकमित्यर्थः । एवमेव कुलपुत्र नास्ति तथागतानामिति। परतन्त्रात्मकानम्। परिनिष्पन्नाभिनिवेशनिराकरणार्थमाह। तद्यथापि नाम कुलपुत्र पुरुषः सुप्त इत्यादि। मृपावादो हि स्वप्न इति।
सर्वचालम्बनं बाह्य देशकालान्यथात्मकम् ।
जन्मन्यन्यत्र तस्मिन् वा तदा कालान्तरेऽपि वा ॥ तद्देशोऽन्यदेशो वा स्वप्नज्ञानस्य गोचरो न भवत्यन्याकारज्ञानस्यान्यालम्बनेऽतिप्रसङ्गात्। न चान्यदाह्यं रूपमुपपद्यते। अल्पीयस्यपि वेश्मनि बहुयोजनपरिमाणानां गिरितरुसागरादीनां सप्रतिघानामुपलभात, तस्माद्धान्तमेव तथाविधं ज्ञानमुपजायत इत्यलोकः स्वप्नः। एवमेव कुलपुत्र सर्वधर्मा (p. 514, 11) इति। प्रमाणोपपन्नोत्पत्तिरहितत्वेन परिनिष्यन्नस्वभावाः सर्वधर्माः स्वप्नोपमाः । धर्मतामप्रजानन्त इत्यनुत्पादरूपतामनवगच्छन्तः। षड्गतिकमिति। देवादिपञ्चगतिभ्योऽसुरगतेः पृथग्व्यवस्थापनात्। ते च भगवतः श्रावका इति ।
शोलादपि वरं भ्रंशे न तु दृष्टेः कदाचन ।
शैलेन गम्यते स्वर्गों दृष्ट्या याति परं पदम् ॥ इति न्यायेन त एव मायोपमधर्मताधिमुक्ता भगवतः