________________
अभिसमयालङ्कारालोकः।
५४५
तथागतानामागमनगमननिषेधेन दर्शनमार्गोत्पादनार्थ सर्वधर्मनैराग्यमावेदयन्नाह । एवमुक्ते धर्मोगत (p. 512, 2) इत्यादि। तथताऽनुत्यादभूतकोटिशून्यतायथावत्ताविरागनिरोधाकाशधातुस्वभावत्वप्रतिपादनेन यथाक्रमं बुद्धानां भगवतां मायोपमसर्वाकारज्ञताद्यष्टाभिसमयप्रभावितत्वमावेदितमित्येके। अत एवाह। न हि कुलपुत्रेत्यादि। एभ्यो धर्मभ्य इति । सर्वाकारज्ञतादिधर्मेभ्यो नान्यत्र तथागतः। किन्वेषामेव या तथता सा तथागत इत्यर्थः । अन्ये तु हेतूदाहरणाधिक्यादाधिक्यं निग्रहस्थानं शुद्रनैयायिकैरप्युच्यते। तत्कथं न्यायपरमेश्वरो भगवानुदाहरणाधिक्यमुक्तवानिति चोद्यं कृत्वा। यत्र नामैकः प्रतिपाद्यस्तत्र तत्प्रसिद्धस्यैकस्यैवाभिधानं युक्तम् । तत्र तु पर्षन्मण्डले बहवो भिन्नमतयः सन्निषणा इति । तदधिकारेण युक्तमनेकोदाहरणवचनम्। विकल्पेन वाऽमौ दृष्टान्ता न समुच्चयेनेत्येवं मर्वत्राधिकवचने परिहारं वर्णयन्ति। तथा दृष्टान्तस्यैव कथनात्प्रतीत्यसमुत्पन्नत्वादिको हेतुः प्राज्ञैरभ्यहनान्नोक्त इति। तथागतानां स्वरूपमेवं निर्दिश्य कल्पिताभिनिवेशनिषेधार्थमाह। तद्यथापि नाम कुलपुत्र पुरुष इत्यादि । मरौचिकामिति (p. 513, 1) विशिष्टादित्यरश्मिम् । पदार्थस्वरूपापरिज्ञानादालजातीयः। विपरीतप्रतिपत्त्या दुष्प्रज्ञजातीयः। न पुनस्तबोदकं स्वभावतः संविद्यत इति । मृगतोयस्य विज्ञाने रश्मितप्तोषरमालम्बनं न भवत्यन्याकारज्ञानस्यान्यालम्बनेऽतिप्रसङ्गात्, परस्परव्यात्तरूपत्वात्सर्वभावानामुदकं मरीचिकायां तत्त्वतो न संविद्यते ।
69