________________
त्रिंशत्तम परिवर्तः |
(p. 503, 9) । प्रभूता विपुला इति । अनेकप्रकारद्रव्यभेदात्प्रभूताः । एकैकप्रकारस्यानन्त्या द्विपुलाः । अनुजानौतेति (p. 504, 8) । अनुज्ञां प्रयच्छत । अद्राक्षौद्दूरादेवेति (p. 505, 10) विशिष्टाधिगमलाभेनार्यधर्मोद्गत विमोक्षदर्शनसामर्थ्याद्गन्धवतौं नगरौं दूरादेव दृष्टवान् । क्वासौ कौशिकेति (p. 507, 13) | धर्मार्थत्वा देवाभिज्ञाभोग वैकल्यात्पृष्टवान् । सप्तभिर्मुद्राभिरिति । दुर्लभमहार्थतयाऽचादरोत्पादनार्थं दृढतरं मप्तभिर्बन्धनैर्बद्धा सप्तसु ग्रन्थिस्थानेषु सप्तभिः स्वनाममुद्राभिर्मुद्रयित्वा स्थापितेत्येके । भव्यतां ज्ञात्वा नितरामावर्जनार्थमृद्धिप्रातिहार्य कृतमित्याह । अथ खलु तानि पुष्पाणीत्यादि ( 1. 508, 10) | तथागतानामागमनगमन परिज्ञानप्रश्नार्थम् । पूर्ववृत्तान्तमावेदयन्नाह । इहाहं कुलपुत्रेत्यादि (p. 509, 19 ) ॥
५४४
अभिसमयालङ्कारालेोकायां प्रज्ञापारमिताव्याख्यायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः ॥