________________
व्यभिसमयालङ्कारालोकः ।
याव
1
मिति वैमनस्यं । तेन मूल्येनेति (p. 495, 6)। ज्जीवमात्मभावविक्रये परप्रतिबद्धतया तच गमनासम्भवान्नितरां पूजावैकल्यमिति । तावत्कालविक्रीतात्मभावमूल्येन सम्भारभूमावप्यभिज्ञाबलाद्दिव्यपूजासम्भवेऽपि तन्मूल्यग्रहणं धर्मगौरवार्थमित्येके । धर्मश्रवणार्थिकत्वादृड्यभिज्ञाभोगस्मृतिवैकल्यादित्येके । मन्दवौर्याणां धर्मपर्येष्टिं प्रत्युत्साहसन्दर्शनार्थमित्यपरे । श्रेष्ठिदारिकाप्रभृतौनामन क्रमेणार्थकरणमिति केचन । स्वपरोभयोपद्रवविनाशाद्यथाक्रमं भग्नानौत्यादिपदत्रयम् । कामहेतोः कामनिदानमिति । अनुभूताननुभूतकामार्थमित्यर्थः । मृदुमध्याधिमात्र हर्षलाभात्तुष्टचित्त इत्यादि पदत्रयम् । अभिज्ञाबलाहृदयादिदानेऽपि धर्मश्रवणान्तरायादर्शनाद्दास्यामौत्यभ्युपगतवानिति केचित् । धर्मपूजार्थिकतयाऽन्तरायोऽपि न गणित इति कश्चन । परित्यक्तमिति (p 497, 22)। आशयमहत्त्वादेव महतौ पूजा न तु द्रव्यमहत्त्व नेत्यभिप्रायाद्यदिकल्पितं तद्देहौत्युक्तवान् । कारणामिति पौडाम् । गुणजातिरिति गुणसामान्यम् । गुणविशेष इति गुणस्वलक्षणम् । तच मनोऽनुकूलत्वाद्रोचन्ते । दोषानुत्पादत्वात् क्षमन्ते । विषयितेति ( p. 500, 17 ) वशिताप्रभुत्वं सामर्थ्यमिति यावत् । तौक्ष्णमध्यम्मृद्दिन्द्रियजनप्रतिभासापेक्षया क्षणादिपदत्रयम् । उत्पन्नरोगाभावाद रोगः । अनागतव्याधिं प्रत्ययोग्यत्वान्निरुपद्रवः । एवं हौत्यादि (p. 501, 8) । निवेशनमिति गृहम् । उत्सृजतेति त्यजत । पूर्ववत्तत्कस्य हेतोरित्याशङ्कयाह । न ममान्यत् किश्विचनमित्यादि
५०३