________________
५४२
त्रिंशत्तमपरिवर्तः।
भूमौ बुद्धशतादिकं पश्यतीति प्रदेशान्तरे यहचनं तदवश्यंभावित्वेनेति प्रतिपत्तव्यम्। अन्यत्र विधिप्रतिषेधयोरनियमात् । अतोऽधिमुक्तिर्याभूमावसंख्येयतथागतोपलम्भो भवति। ननु दयोस्तथागतयोरेकस्मिन् लोकधातौ सम्भवविरोधात् कथमेवमिति चेत् । लोकधात्वन्तरे स्थितानप्रमेयान् बुद्धान् भगवतः पश्यति स्मेत्येके। यत्खल्विदमपूर्वाचरमौ द्वौ तथागतौ लोके नोत्पद्येयातामिति जन्मनिषेधनं तच्छामनप्रत्तिमभिप्रायोकृत्योक्तमतो न दयोस्तथागतयोयुगपल्लोके शासनं प्रवर्तत इत्ययमेवार्थस्तत्र सन्तिष्ठते। यस्मात्परमार्थपरतन्त्रोत्पत्तित्वेनेयमेव तयोरुत्पत्तिर्यदत शासनप्रत्तिरेवञ्च सतीह लोकधातुस्थानेव समानाभिप्रायत्वेन विहितैकशासनक्रमानविकलकारणत्वाद्युगपदत्पन्नानेकतथागतान् पश्यति स्मेत्यपरे। नापूर्वाचरमाविति वचनात् क्रमेण तेषामुत्पत्तिरनुज्ञातैव । ते तूत्पन्नाः परिनिर्वाणाभावात्, धर्मसम्भोगकायाभ्यां विद्यन्त एव। केवलमपुण्यवतां नाभासौभवन्ति । पुण्यवद्भिः पुनर्यथा पुण्यमल्पीयांसो भूयांसो वा समुपलभ्यन्त इत्यन्ये । तदानौं तत्रत्यैकतथागताधिष्ठानेनार्यधर्मोहतसामर्थ्येन वा प्रातिहार्यकरणकाले पृथग्जनानामिवामेयनिर्मिततथागतदर्शनमिति केचित् । अचिन्त्यविमोक्षमुखभावनाबलादादिकर्मिकाणामिव स्वचित्तस्यामेयतथागतप्रतिभासानुगतत्वेनोत्पादादप्रमाणतथागतदर्शनमित्यपरे। चैलोण्डुकमिवेति (p. 493, 17)। वस्त्रगुलकमिव शिरसा परिकर्षेर्धारयेस्त्वमित्यर्थः। तथैव तत्कस्य हेतोरित्याशंक्याह। तस्य होत्यादि (p. 494, 2)। परितसन