________________
अभिसमयालधारालोकः ।
५४९ कम्बलजातिः। गर्भोलिको मखरकः। चैलवितानमिति वस्त्रवितानं। अस्तित्वगुणवच्छक्यत्वेषु संप्रत्ययप्रसादाभिलाषाकरश्रद्धाप्रतिपादनार्थ धर्माणां सन्निश्रयतयेत्यादि पदचयोपादानम्। अधिष्ठितमिति (p. 489, 17)। अविच्छिन्नं चिरकालप्रार्थितप्राप्त्युपायश्रवणेन मृदमध्याधिमात्रसुखसौमनस्य लाभाद्यथाक्रमं तुष्ट इत्यादि षट्पदानि। तथागताववादेनाशयविशुद्धिलाभात्प्रज्ञापारमिताश्रवणं जातमित्याह । अथ खलु सदामरुदित इत्यादि (p. 4999. 8) । सम्पन्न हेतुकानां धर्मश्रवणं नाफलवदित्याह। शृण्वंश्वेत्यादि। अनिश्रितसंज्ञामिति। मायोपमसंज्ञाम्। धर्मनैरात्म्यप्रभावितश्च सर्वोऽधिगम इत्याह । तस्यानेकानौत्यादि। यस्मिन् समाधौ व्यवस्थितः मर्वधर्माणां स्वभावं मायोपमत्वादिना व्यवलोकयति, म सर्वधर्मस्वभावव्यवलोकनो नाम समाधिः। एवं मर्वधर्मस्वभावानुपलब्धिर्नाम समाधिरित्यादयो व्याख्येयाः । तत्र मृदमध्याधिमात्रनिर्वेधभागीयाधिगमभेदात्सर्वधर्मस्वभावव्यवलोकनादिद्वादशसमाधयस्तन्निर्जातात्वधिमुक्तिचर्याभूमावेव मायावर्जित इत्यादयः पञ्चाशत्समाधयश्चावगन्तव्याः। आर्यरत्नमेघसूत्रे चास्यामेवाधिमुक्तिचर्याभूमौ वर्तमानो बोधिसत्त्वः पृथग्जनोऽपि सर्वबालविपत्तिसमतिकान्तोऽसंख्येयसमाधिधारणौविमोक्षाभिज्ञादिगुणान्वितः कथ्यत इति । आशयपरिशुद्धिबलादेव प्रथमभूम्यधिगमार्थ ममाहितावस्थायां तथागतप्रतिभासपूर्वको विस्तरेणाववादो जात इत्याह । स एषु समाधिषु स्थित इत्यादि (p. 492, 6)। प्रमुदितादि