________________
५४०
त्रिंशत्तमपरिवर्तः।
सांयोगिकनौलत्वान्निदर्शनानि। उभयोः प्रभानिर्मोक्षभास्वरत्वान्नौलनिर्भासानि। एवं पौतानौत्यादिज्ञेयम् । बुद्धनेत्रौत्यादि। बुद्धनेत्री प्रज्ञापारमिता। तस्यां चित्रीकारः प्रमादस्तेनानुगतं युक्तं सुष्ठ गतमवबुद्धं श्रुतं चित्तं श्रुतमयं ज्ञानं येषां ते यथोक्तास्तेषां पूर्वकर्मविपाकेनेति पूर्वेण सम्बन्धः । गन्धवत्यां मध्य इति। गन्धवत्यां नगर्यामभिलक्ष्यभूतस्थानस्य शृङ्गाटकस्य मध्य इति सम्बन्धः । मृदमध्याधिमात्रोपभोगभेदागृहपरिभोगेत्यादिपदवयम्, कर्केतनमयोति (p. 48S, I) । कर्केतनमिन्द्रनौलम् । समर्पित इत्युत्पादितकायसुखः । समन्वंगीभूत इति सञ्जातचित्तसौमनस्यः। आत्मनि सति परसजा स्वपरविभागात्परिग्रहद्वेषौ। अनयोः सम्प्रतिबद्धाः सर्वक्लेशाः प्रजायन्त । इति न्यायेनात्मात्मौयग्रहाभिनिवेशपूर्वकत्वेन सर्व एव रागादयः क्लेशा दःखविपाकहेतवो भवन्ति । मायोपमसर्वधर्मभावनया पुनः सत्त्व विनयनमुपादाय क्लेशवशित्वलाभेनाशयविशेषान्मायापुरुषस्येव कामपरिभोगोजिनात्मजानां न दोषकृत्तथा ॥
बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः । प्रकुर्वन्ति हि सत्त्वार्थ गृहिणः सर्वजन्मसु ॥ क्लेशो बोध्यङ्गतां यातः संसारश्च शमात्मताम् ।
महोपायवतां तस्मादचिन्त्या हि जिनात्मजाः ॥ इति वचनात् कामपरिभोगो बोधिसत्त्वानां न दोषकृत्। गृहौतनियमानामेव कामपरिभोगस्य दृष्टत्वात्। तूलिकास्तीर्णेति। तूलिका ज्ञायत एव। गोणिका तु विशिष्ट