Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 265
________________ श्रीसूराचार्यप्रबन्धः । २५७ इत्येवं शंकया क्षुण्णं विमृशनिश्चिकाय च। पट्टिकापाठएवायमीदृशोऽत्र नहीतरत् ॥१८८॥ जल्पेद्यावद्रयेणासौ तावत्परुषशब्दतः। पाश्चात्यं तु पदं कूटं बभणे भवता हि भो ॥ १८९ ॥ पुनर्भणेति सप्तोक्ते रभसेति ततोऽवदत् । पट्टिकायां ममेदृक्षं लिखितं निश्चयो मम ॥ १९० ॥ सूराचार्य इति श्रुत्वा प्राह संतोषनिर्भरम् । यादृक् लक्षणशास्त्रादौ श्लोको वादोऽपि तादृशः ॥ १९१ ॥ तदापृच्छामहे श्रीमान् भोजभूपालपुंगवः। अदर्शि मालवों देशो मंडकाः खादिता अपि ॥ १९२ ।। इत्युक्त्वा प्रययौ सूरिर्मठं हतजितद्विषम् । लज्जामन्युभराक्रांतो राजास्थानं व्यसर्जयत् ॥ १९३॥ श्रीमान् चूडसरस्वत्याचार्यः प्राघुणमभ्यधात् । अस्माकं शासनोद्योतात्सुखं त्वन्मृत्युतोऽसुखम् ॥१९४॥ श्रीभोजराजः स्वसभाजेतारं हन्ति निश्चितम् । जये पराजये वापि न श्रेयः किमु कुर्महे ॥ १९५॥ सूराचार्यस्ततोऽवादीद्वीरधौरणिधूर्धरः। वं रक्षिष्येऽहमात्मानं भवद्भिर्मानुतप्यताम् ॥ १९६ ॥ तदा श्रीधनपालेन प्रेरितः कविचक्रिणा। पुरुषो गूर्जराचार्य प्रोचे स्वस्वामिवाचिकम् ॥ १९७॥ पूज्याश्च येन केनापि मद्वेश्मायांतु सत्वरम् । अविश्वास्यो नृपस्यास्य प्रसादो पि भयंकरः॥ १९८॥ मंडनं सर्वदेशानां भवाग विश्रुतः सुधीः। भाग्यातिशयतो मादृगजनैर्दुर्लभ एव यत् ॥ १९९॥ मद्दर्शनानन्तरं च विधेया कापि नाधृतिः। सुखेन गूर्जरं देशं प्रापयिष्यामि निश्चितम् ॥ २००॥ अहो जागर्ति भाग्यं वः साधूनां मितभाषिणाम् । प्रातः क्षणेऽश्ववारैस्तच्चैत्यं वाटमवेष्टयत ॥२०१॥ संतोषजयपत्रं वः प्रदास्यति नृपाग्रणी। विद्वांसमतिथिं प्रेषयध्वं विध्वस्तवादिनम् ॥ २०२॥ इति वास्तव्यसूरिं तेऽभ्ययुर्विधुरिताननम् । आयास्यतीति तानाह शुन्यतायातचेतनम् ॥ २०३ ॥ मध्याह्ने कर्कशे सूर्यतापात्कुंभे गुरौ तदा। कृतवेषपरावर्तो दाम दत्वा दृढं गते ॥२०४॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358