Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 324
________________ प्रभावकारिते ततश्च गिरिमार्गेणाचिरादैवतकाचलम् । निकषानिकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रदापयदावासान् संकलग्रामसन्निधौ । गिरिं तत्र स्थितोपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ॥ तदा श्रीनेमिचैत्यस्य पर्वतोर्द्धभुवि स्थितः । जीर्णोद्धारे कारिते च श्रीमत्सज्जनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९ ॥ दे॒वयादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते ॥३३०॥ युग्मन् । नृपतिः प्राह जाने श्री हेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थे श्रीनेमिस्तत्रतीर्थकृत् ॥ ३३१ ॥ जगत्पूज्यैः कृतिर्मेस्तु कथमेषेतिसंशये । श्रुत्वेत्यमात्य आहस्मावधानादवधार्य्यताम् ॥ ३३२ ॥ अद्य नवमे वर्षे स्वामिनाधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३॥ प्रतिवर्षे नृलक्ष्मीं च व्ययित्वा चैत्यमुद्धृतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४ ॥ सप्ताविंशतिलक्षांश्च द्रम्मान् गृह्णातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलकोद्भेदमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मन्त्रिन् तुच्छं द्रव्याद्शाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यकीर्तिमयं महत् ॥ ३३६ ॥ त्वत्समः स्वजनः कोन्यो ममेह परलोकयोः । सखे विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ ३३७ ॥ वचोनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाष्टांगं नतो जिनम् ॥ ३३८ ॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नार्दनिका तथा । स्त्रीसङ्गः सूतिकर्म्मापि न दध्मोथ विलोडनम् ॥ ३४० ॥ इत्यादिसिद्धमर्य्यादा वर्त्ततेद्यापि शाश्वती । ततोभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः ॥ ३४१ ॥ ३१६ १ P omits this line. २ Phas दारिद्र्यौघविनाशायासुखसंपत्ति दायकः । after जिनेशितुः । ३ HD त्प्रभुः ४P नादुनिका.

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358