Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 327
________________ श्रीहेमचंद्रसूरिप्रबन्धः । श्रीमालवंशभूस्तत्र व्यवहारी महाधनः । समेस्त्युद्यानाभिख्यस्तस्य पार्श्वे महद्वदुः ॥ ३७७ ॥ एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद्वणिजां श्रेष्ठः किंचित्प्रार्थितशंबलः ॥ ३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद्दापसरेह त्वां मा द्राक्षू राजपूरुषाः ॥ ३७९ ॥ act स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्यं प्राप प्राप्तभयोदयः ॥ ३८० ॥ श्रुत्वा कुमारपालोपि तत्पुरं प्राविशन्निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लंघने तदा ॥ ३८१ ॥ सूरिः श्रीहेमचंद्रश्च चतुर्मासिकमास्थितः । तदा चारित्रसंज्ञातलब्धिभिर्गौतमोपमः ॥ ३८२ ॥ उद्यद्व्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन्सदा भव्यमतो भूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कुमारोपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणैः ॥ ३८४ ॥ वरासन्युपवेश्यो चै राजपुत्राखेनिर्वृतः ? | अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यति ॥ ३८५ ॥ सर्वे कैथं न सुप्राप्य कालं निःकिंचनैः क्षुधाः । द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८६ ॥ अद्यप्रभृति दारिद्र्यं नायाति तव संनिधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः ॥ ३८७ ॥ एवं भावीति चेद्राज्ये प्राप्ते मम कृतं विभो । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥ ३८८ ॥ इत्युक्त्वा प्रययौ देशांतरं गूढो नराधिपम् । घनं घनाघनैश्छन्न इव पार्वणचन्द्रमाः ॥ ३८९ ॥ कापालिकवते कौलेशे विचित्रपदोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः ॥ ३९० ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवाहयत् । गुरुवाक्यैर्मनो बिभ्रत्संकटेपि विसंकटम् ॥ ३९१ ॥ तस्य भूपालदेवीति कलत्रमनुगाभवत् । छायेव सर्वावस्थास्वमुंचंती सविधे स्थितिम् ॥ ३९२ ॥ १ P स्तत्व ? २ H omits this line. ३ H रमान्यो. ३१९

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358