Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 325
________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३१७ ततोऽम्बाशिखरं गत्वा तां प्रपूज्य ननाम च । अवलोकनश्रृंगं चारोह स तु कौतुकी ॥ ३४२॥ तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः। दिशोऽवलोकयामास तत ऊचे स चारणः ॥ ३४३॥ यतः-मई नायं सीथेसजंचडिउगिरनारसिरि। अलइआचारुदेसअलिकुंजो अइ कर्णऊत्र ॥ ३४४॥ पर्वतावतीर्याधः श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५॥ सूरिश्च तुष्टुवे तत्र परमात्मस्वरूपतः । ननाम चाविरोधो हि मुक्तः परमकारणम्॥३४६॥ 'तथाहि' यत्र तत्र समये यथा तथा योसि सोस्यभिधया यया तया। वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तुते॥३४७॥ महादानानि दत्वा च पूजाश्च महिमाद्भताः। व्यावृत्तः कोटिनगरं प्रापदविकयादृतम् ॥ ३४८॥ अपत्यचिन्तयाक्रान्तोऽबिंकामाराधयत्ततः। श्रीहमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९॥ उपोष्य त्रिदिनान्ते चाह्वयंस्तां शासनामरीम्। प्रत्यक्षीभूय सा प्राह शृणु वाचं मुने मम ॥ ३५०॥ नास्यास्ति संततेर्भाग्यं जीवोऽपीहर न पुण्यभूः। समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ॥३५१॥ स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः। राज्यांतराणि जेतासौ भोक्ता च परमार्हतः॥३५२॥ अणहिल्लपुरं प्रायादनायासोत्सवोदयम्। अंतर्दूनसुताभावप्रजापीडनशंक्रितः॥ ३५३॥ इतः श्रीकर्णभूपालबंधः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत्प्रसाद इव संपदाम् ॥ ३५४॥ तत्पुत्रः श्रीत्रिभुवनपालः पालितसव्रतः। कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५॥ अथ श्रीसिद्धभूमीशः पुत्राशाभंगदुर्मनाः। आह्वाययत देवज्ञान् परमज्ञानिसंनिभान् ॥ ३५६॥ ग्रहचाराय सद्भावप्रश्नचूडामणिक्रमैः। केवलीभिश्च संवाद्य तेऽथाचख्युःप्रभोः पुरः॥३५७ ॥ खामिन् कुमारपालोऽसौ युष्मद्वंधुषु तु ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ॥ प्रतापाक्रान्तदिक्चक्रेऽनेकभूपालजित्वरः। भविष्यति पुनस्तस्य पश्चाद्राज्यं विनश्यति ॥३५९ ॥

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358