Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 269
________________ अभयप्रबन्धः । अतीचारान् स विज्ञप्य गुरुपार्श्वे महामतिः । देशान्तरगतौ जातास्तपसाशोधयद्दृढम् ॥ २५३ ॥ युगादिनाथश्रीनेमिचरिताद्भुतकीर्तनात् । इतिवृत्तं द्विसंधानं व्यधात् स कविशेखरः ॥ २५४ ॥ यः पूर्व पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादद्रतया सममयोजयत् ॥ २५५ ॥ श्री द्रोणसूरिणां गत्या परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः सूरिसद्गुरुः ॥ २५६ ॥ प्रभावनाभिः श्रीसंज्ञमुन्नमय्य श्रुतोदधिः । शिष्यान्निष्पाद्य संपाद्य जैनप्रवचनोन्नतिम् ॥ २५७ ॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पंचत्रिंशद्दिनमितं दधौ ॥ २५८ ॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः । श्री भीमभूपतेर्बंधुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥ २६१ चतुर्भिः कलापकम् । श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोदक्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाप्य किंचित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः सेतुर्जाड्यां बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६० ॥ श्रीचंद्रप्रभसूरिपट्टसरसी हंसप्रभः श्रीप्रभा चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीसूरसूरेः कथा श्रीप्रयुनमुनींना विशदितः शृंगोऽयमष्टादशः ॥ २६१ ॥ इतिश्रीसूराचार्यप्रबन्धः ॥ ग्रंथ० २६९ अ २३ भम० ४२७७ । अभयदेवप्रबन्धः । श्रीजैनतीर्थधम्मिलोऽभयदेवः प्रभुः श्रिये । भूयात्सौमनसोद्भेदभाखरः सर्वमौलिभूः ॥ १ ॥ आहत्याष्टांगयोगं यः स्वांगमुद्धृत्य च प्रभुः । श्रुतस्य च नवांगानां प्रकाशी स श्रिये द्विधा ॥ २ ॥ वदन्बालो यथा व्यक्तं मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि गुरुहर्षकृते यथा ॥ ३॥ अस्ति श्रीमालवो देशः सद्वृत्तरसशालितः । जंबूद्वीपाख्यमाकंदफलं सद्वर्णवृत्तसूः ॥ ४ ॥

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358