Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 317
________________ श्रीहेमचंद्रसूरिप्रबन्धः। ३०९ अतिशीघ्र तथा गुम्फे भित्यन्तः पूरणाकृतौ । कोभिमानस्ततो धीमन्नेकमस्मद्वचः शृणु॥२०९ ॥ . 'तद्यथा' भ्रातामकुविन्दकन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि बहुशोप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदा सूच्यते यन्नोज्झन्ति कुचस्थलात्क्षणमपि क्षोणीभृतां वल्लभाः॥२१०॥ समस्यां दुर्गमां कांचित्पृच्छतेति नृपोदिते । श्रीपाल ऊचिवाने स्फुटं शिखरणीपदम् ॥ २११ ॥ तच्च-कुरङ्गः किम्भृङ्गो मरकतमणिः किं किमशनि ॥ तत्पाठपृष्ठ एवासाववदत्कविनायकः।। चरणतृतीय(त्रितयं)वृत्ते को विलम्बोत्र(स्त्व)मूदृशि॥२१२॥ तद्यथा-चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । नृप त्वं मानादि दलयसि च किं कौतुककरः कुरङ्गः किंभृङ्गो मरकतमणिः किं किमशनिः॥२१३॥ गृहाण चैकं मत्पार्श्वे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद्यस्याधमों न स तत्र किम् ॥ २१४ ॥ निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिताः ॥ २१५॥ किं शब्दवहलास्त्वेताः शून्यप्रश्ननिभा नृप । सदृक्षा भणितेरस्य निद्या कोविदसम्पदाम् ॥ २१६॥ तथाहि पौत्रः सोपि पितामहः। सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात् । नमः कर्पूरपूराभं । चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं। वाचानुपदमेवासौताः पुपूरे कवीश्वरः। सिद्धसारस्वतानां हि विलम्बकविता कुतः॥ २१७॥ 'ताश्च'-मूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम् ।। अब्जोत्पन्नतया यस्याः पौत्रः सोपि पितामहः॥ २१८॥ चलितश्चकितो भीतस्तव देव प्रयाणकः। सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ॥ २१९ ॥ नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं करिष्यति शनैः शनैः॥ २२०॥ इत्थं गोष्टया महाविद्वन् शिरः कम्पकृता तदा। कियंतमपि निर्वाह्य क्षण सौधं ययौ नृपः ॥ २२१ ॥ अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा। दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358